________________
२५२
तत्त्वसंग्रहे किं तर्हि ? वस्तुरूपाध्यवसायेनैव शाब्दी धीः प्रवर्त्तमाना समालक्ष्यते। न च शाब्दे ज्ञाने यो न प्रत्यवभासते स शब्दार्थो युक्तः; अतिप्रसङ्गात् । तस्मात् प्रतीतिविरोध:प्रतिज्ञायाः ॥९०९• ९१०॥ यदि गरित्यादिना थोकत्रयेण भामहस्य मतेन प्रतीत्यादिबाधामुद्भावयति
यदि गौरिति शब्दश्च कृतार्थोऽन्यनिराकृतौ।। जनको गवि 'गोबुद्धेमुंग्यतामपरो ध्वनिः ॥९११॥
(का० ल० ६.१७) यदि गोशब्दोऽयव्यवच्छेदप्रतिपादनपरः, तदा तस्य तत्रैव चरितार्थत्वात् सास्नादिमति पदार्थे गोशब्दात् प्रतीतिर्न प्राप्नोति, ततश्च सास्नादिमत्पदार्थविषयाया गोबुद्धर्जनकोऽपरो ध्वनिरन्वेषणीयः स्यात् ॥ ९११॥ स्यादेतत्-एकेनैव गोशब्देन बुद्धिद्वयस्य जन्यमानत्वान्नापरो ध्वनिर्मग्यते? इत्याह
न तु ज्ञानफलाः शब्दा न चैकस्य फलद्वयम्। .. अपवादविधिज्ञानं फलमेकस्य वः कथम् ! ॥९१२॥
. . . (का० ल० ६. १८) विधिविषयं प्रतिषेधविषयं च ज्ञानं फलं येषां ते तथोक्ताः । ततः किमित्याह-न चैकस्येत्यादि। न ह्येकस्य विधिकारिणः प्रतिषेधकारिणो वा शब्दस्य युगपद्विज्ञानद्वयलक्षणं फलम्। उपलभ्यत इति शेषः । न चापि परस्परविरुद्धमपवादविधिज्ञानं फलं युक्तम् ॥ ९१२॥ प्रगित्यादिनोपचयहेतुमाह
प्रागगौरिति विज्ञानं गोशब्दश्राविणो भवेत्। येनागोः प्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः ॥९१३॥
(का० ल० ६. १९) यदि च गोशब्देनागोनिवृत्तिर्मुख्यतः प्रतिपाद्यते, तदा गोशब्दश्रवणानन्तरं प्रथमतरम् 'अगौः' इत्येषा श्रोतुः प्रतिपत्तिर्भवेत्। तत्रैव ह्यव्यवधानेन शब्दात् प्रत्यय उपजायते, स एव शब्दार्थो व्यवस्थाप्यते। न चाव्यवधानेनागोव्यवच्छेदे मतिरुपजायते। अतो गोबुद्ध्यनुत्पत्तिप्रसङ्गात् प्रथमतरमगोप्रतीतिसङ्गाच्च नापोहः शब्दार्थ इति ॥ ९१३॥ [G.292] अगोनिवृत्तिरित्यादिना कुमारिलमतेन प्रतिज्ञादोषमुद्भावयति । स ह्येवमाह
अगोनिवृत्तिः सामान्यं वाच्यं यैः परिकल्पितिम्।
गोत्वं वस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम् ॥९१४॥ अपोहलक्षणं सामान्यं वाच्यत्वेनाभिधीयमानं कदाचित् पर्युदासलक्षणं वाऽभिधीयते, प्रसज्यलक्षणं वा। तत्र प्रथमे पक्षे सिद्धसाध्यता प्रतिज्ञादोषः, तथा हि-अस्माभिर्गोत्वाख्यं १-१. ग....न्यनिराकृतौ-पा०; गौरिति शब्दोऽयं भवेदन्यः– पा०। २. बुद्धेदृश्यता०- पा०, गा० । ३-३. .... यम्, अपवादविधि.....-पा०; ०वा कथम् -गा० । 'इदं समग्रं कुमारिलमतमाचार्येण प्रायस्तस्यैव गिरा (ोकवार्त्तिकापोहप्रकरणस्थकारिकाभिः) उपस्थापितमिति ध्येयम्।