________________
शब्दार्थपरीक्षा
२५१ [G.290] एवं सति सर्वदा बाह्ये प्रवृत्तिर्न प्राप्नोति, कदाचिद् विवक्षापरिवर्त्तिन्यपि चोदिते प्रवृत्तिर्भवेत् । यथा-यमलकयोरिव।।
योऽपि वैभाषिक: शब्दविषयं नामाख्यं निमित्ताख्यं चार्थचिह्नरूपं विप्रयुक्तं संस्कारमिच्छति, तदप्येतेनैव दूषितं द्रष्टव्यम् । तथा हि-तन्नामादि यदि क्षणिकम्, तदाऽन्वयायोगः; अक्षणिकत्वे क्रमिज्ञानानुपपत्तिः; बाह्ये च प्रवृत्त्यभावप्रसङ्गः। 'सारूप्यान्न सर्वदेति सर्वं यथोक्तं दूषणमखण्डमेवावतरति।
अथ वा- एतेनेति । यथासम्भवं स्वलक्षणादिदूषणेन। तथा हि-अत्राप्येवं वक्तव्यम्
"अशक्यसमयो ह्यात्मा नामादीनामनन्यभाक्।
तथा मतो न वाच्यत्वं कथञ्चिदुपपद्यते" इति ॥ ९०७ ॥ यदुक्तम्-"विवक्षासमारूढार्थद्योतकत्वे शब्दानां बाह्ये प्रवृत्तिर्न प्राप्नोति"; अत्र परस्योत्तरमाशङ्कयन्नाह
विवक्षानुमितिथिष्टमाकारं 'बाह्यरूपतः।
- व्यवसायानुवृत्तिश्चेत् तदेवास्मन्मतं पुनः ॥९०८॥ विवक्षा च वक्तृसन्तानवर्तिनी, तस्या एव विवक्षाया अनुमितिश्च श्रोतृसन्तानगतेति विवक्षानुमिती, ताभ्यां श्लिष्टः सम्बद्धः, तत्प्रतिभासीत्यर्थः । तमाकारं बाह्यतया व्यवस्यतोर्वक्तृश्रोत्रोरत्र बाह्ये प्रवृत्तिर्भविष्यति । एतदुक्तं भवति-परमार्थतः स्वप्रतिभासानुभवेऽपि वक्तुरेवमध्यवसायो भवति-मयाऽस्मै बाह्य एवार्थः प्रतिपाद्यते । श्रोतुरप्येवं भवति-ममायं बाह्यमेव प्रतिपादयतीति। अतस्तैमिरिकद्वयद्विचन्द्रदर्शनवदयं सर्वः शाब्दो व्यवहार इति। यद्येवम्, अस्मत्पक्ष एव पतितोऽसीति सिद्धसाध्यता; पूर्वं प्रतिभाद्वारेणागतत्वात्? इत्यतः पुनरित्याह । तदेवम् अकृतसमयत्वात्' इत्यस्य हेतो सिद्धतेति प्रतिपादितम्। अनैकान्तिकत्वविरुद्धत्वे तु पूर्वमेव निरस्ते। तस्मात् सिद्धा यथोक्तापोहकृतः शब्दा इति ॥ ९०८॥
अत्र परोऽपोहशब्दश्रवणाच्छलितमतिरविदितविवक्षितापोहस्वरूपः प्रतिज्ञायाः प्रतीत्यादिविरोधमुत्पादयन्नाह
नन्वन्यापोहकृच्छब्दो युष्माभिः कथमुच्यते ? [G.291] 'अन्यापोहकृच्छब्दः' इत्यत्रेतिशब्दोऽध्याहार्यः । अन्यापोहकृच्छब्द इत्येव कथमभिधीयत इत्यर्थः । कस्मानाभिधेयम्? इत्याह
निषेधमात्रं नैवेह प्रतिभासेऽवगम्यते ॥९०९॥ किन्तु गौर्गवयो हस्ती "वृक्ष इत्यादिशब्दतः।
विधिरूपावसायेन मतिः शाब्दी प्रवर्तते ? ॥९१०॥ निषेधमात्रमेव किलान्यापोहोऽभिप्रेतः, न चेह शाब्दे प्रतिभासे निषेधमात्रं गम्यते, १. सारूप्या 7-पा०च सारूप्याच्च 7-गा०। २-२.०बाह्यभावतः-गा० । पा० पुस्तकें 'विवक्षा' इत्येव पाठ उपलभ्यते। ३. व्यवस्यतोः प्रवृत्तिश्चेत्-गा०/ पा० पुस्तके नास्ति।
४-४. वृक्षश्चेत्यादि०-पा०, गा० ।