________________
२५०
तत्त्वसंग्रहे प्रतिपत्तिः प्रवृत्तिर्वा बाह्यार्थेषु कथं भवेत् ? ॥९०२॥ बाह्यरूपाधिमोक्षेण स्वाकारे यदि ते मते। शब्दार्थोऽतात्त्विकः प्राप्तस्तथा भ्रान्त्या प्रवर्त्तनात् ॥९०३ ॥ निर्बीजा न च सा युक्ता सर्वत्रैव प्रसङ्गतः।
इतरेतरभेदोऽस्य बीजं चेत् पक्ष एष नः ॥९०४॥ [G.289) यदि प्रतिभा परमार्थतो बाह्यार्थविषया, तदैकत्र वस्तुनि शब्दादौ विरुद्धसमयावस्थायिनां विचित्राः प्रतिभा न प्राप्नुवन्ति; एकस्यानेकस्वभावसम्भवात्। अथ निर्विषयाः, तदा अर्थे प्रवृत्तिप्रतिपत्ती न प्राप्नुतः? अतद्विषयत्वाच्छब्दस्य। अंथ स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन भ्रान्त्या ते प्रवृत्तिप्रतिपत्ती भवतः? तदा भ्रान्तः शब्दार्थः प्राप्नोति, तस्याश्च भ्रान्तेर्बीजं कारणं वक्तव्यम्; अन्यथा निर्बीजा भ्रान्तिर्भवन्ती सर्वथाः सर्वदैव स्यात् ! अथ भावानां परस्परतो भेद एव बीजमस्या अभ्युपगम्यते? तदाऽस्मत्पक्षमेव भवान् साधयतीति सिद्धसाध्यता ॥ ९०१-९०४॥ | साम्प्रतं सर्वेष्वेव पक्षेषु समानं दूषणमाह- .
यदि वा सर्वमेवेदं क्षणिकं स्यान्न वा तथा।
क्षणिकत्वेऽन्वयायोगः क्रमिज्ञानं च नान्यथा ॥९०५॥ सर्वमेतत् स्वलक्षजात्यादि क्षणिकं वा स्यात् ? अक्षणिकं वा? तत्राद्ये पक्षे संकेतकालदृष्टस्य व्यवहारकालेऽन्वयासम्भवान्न तत्र समयः । अक्षणिकपक्षे च "नाक्रमात् क्रमिणो भावः" (प्र० वा० १.४५) इति शब्दार्थविषयस्य क्रमिज्ञानस्याभावप्रसङ्गः । अन्यथेति। अक्षणिकत्वे॥९०५ ॥
___ अन्ये त्वाहुः-अर्थविवक्षां शब्दोऽनुमापयतीति । यथोक्तम्-"अनुमानं विवक्षायाः शब्दादन्यन्न विद्यते" ( ) इति। अत्राह- .
एतेनैव विवक्षाऽपि शब्दगम्या निराकृता। शब्दार्थासम्भवे हीत्थं व विवक्षा क्व वा श्रुतिः! ॥९०६॥
बहिरर्थे ' श्रुतेर्वृत्तिः कथं वाऽशब्दचोदिते ? यदि परमार्थतो विवक्षा पारमार्थिकशब्दार्थविषयेष्यते, तदसिद्धम्; स्वलक्षणादेः शब्दार्थस्य कस्यचिदसम्भवात्। अतो न क्वचिदर्थे परमार्थतो विवक्षाऽस्ति; अन्वयिनोऽर्थस्याभावात्। नापि तत्प्रतिपादकः शब्दोऽस्ति, 'यदाह-क्व वा श्रुतिरिति । श्रुतिः शब्दः । विवक्षायां च प्रतिपाद्यायां श्रुतेः शब्दाद् बहिरर्थे प्रवृत्तिर्न प्राप्नोति; तस्याचोदितत्वादर्थान्तरवत्॥९०६ ॥
____ अथ मतम्-यो विवक्षाविपरिवर्ती रूपादिरर्थः, यश्च बाह्यः तयोः सारूप्यमस्ति; अतः सारूप्यादचोदिते बाह्ये प्रवृत्तिर्भविष्यति यमलकवत् ? इत्यत आह
सारूप्यात् सर्वदा न स्यात्रामाद्येतेन दूषितम् ॥ ९०७॥ १. पा० पुस्तके नास्ति; सारूप्याच्च-गा।
२. वा चोदिते-पा०। . ३. तदाह-गा। ४-४. सारूप्यानामाद्यतेन-पा०, गा०।