________________
शब्दार्थपरीक्षा
२४९ नान्योऽस्त्यर्थश्च दृश्यंत इति। स्वलक्षणादिव्यतिरेकेणान्योऽस्त्यर्थो निरूप्यमाणो न बुद्धेर्गोचरतामवतरति ॥ ८९५॥ समुदायाभिधानपक्षे दोषमाह
समुदायाभिधानेऽपि जातिभेदाभिधा स्फुटा।
तपोजातिक्रियादीनां सामस्त्येनाभिधानतः ॥८९६॥ समुदायाभिधानपक्षे स्फुटतरमेव जातेर्भेदानां च तपःप्रभृतीनामभिधानमङ्गीकृतमिति प्रत्येकाभिधानपक्षभाविनो दोषाः समुदायाभिधाने सर्वे युगपत् प्राप्नुवन्ति ॥ ८९६ ॥ असत्यो वाऽपीत्यादिपक्षद्वये (तत्त्व० ८८७)दोषमाह
निर्धारितस्वरूपाणां द्रव्यादीनां तु योगतः। सम्बन्धो यच्च सामान्यं सत्यं तद् वारितं पुरा ॥८९७॥ भेदजात्यादिरूपेण . शब्दार्थानुपपत्तितः।
अर्थेनैकीकृतं रूपं न शब्दस्योपपद्यते ॥८९८॥ [G.288] पूर्व षट्पदार्थपरीक्षायांसंयोगसमवायलक्षणस्य सम्बन्धस्य वारितत्वात्, सामान्यस्य च त्रिगुणात्मकस्य सत्यस्याव्यतिरिक्तस्यं साङ्ख्यपरीक्षायाम्, व्यतिरिक्तस्यापि षट्पदार्थपरीक्षायां निरस्तत्वान्नासत्यसंयोगः, नाप्यसत्योपाधिसामान्यं वाच्यम् ॥ ८९७-८९८ ॥ अभिजल्पपक्षेऽप्याह
जल्पो बुद्धिस्थ एवायं बाह्ययोगविभेदतः। तत: को भेद एतस्य 'बुद्धिपक्षादनन्तरात् ॥८९९॥ बुद्ध्याकारोऽपि शब्दार्थः प्रागेव विनिवारितः।
ज्ञानादव्यतिरिक्तस्य व्यापकत्ववियोगतः ॥९००॥ यदि शब्दस्य कश्चिदर्थः सम्भवेत, तदा तेन सहैकीकरणं भवेत्। अपि चायमभिजल्पो बुद्धिस्थ एव। तथा हि-बाह्ययोः शब्दार्थयोर्भिन्नेन्द्रियग्राह्यत्वादिभ्यो भेदस्य सिद्धेस्तयोरैक्यापादनमयुक्तमेव भाविकम् । अतो बुद्धिस्थयोरेव शब्दार्थयोरेकबुद्धिगतत्वादेकीकरणं युक्तम्। तथा हि उपगृहीताभिधेयाकारस्तिरोभूतशब्दस्वभावो बुद्धौ विपरिवर्त्तमानः शब्दात्मा स्वरूपानुगतमर्थविभागेनान्तःसन्निवेशयन् 'अभिजल्प:' उच्यते । स च बुद्धरात्मगत एवाकारो युक्तः, न बाह्यः; तस्यैकान्तेन परस्परं विविक्तस्वभावत्वात्। ततश्च बुद्धिशब्दार्थपक्षादनन्तरोक्तादस्य को भेदः ? नैव कश्चित् ! उभयत्रापि बौद्ध एवार्थः । एतावन्मात्रं तु भिद्यतेशब्दार्थावेकीकृताविति। दोषस्तु समान एव "ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत्" इति। तदेव दर्शयति- बुद्ध्याकारोऽपीत्यादि॥ ८९९-९०० ॥ प्रतिभापक्षे दोषमाह
प्रतिभाऽपि च शब्दार्थो बाह्यार्थविषया यदि। एकात्मनियते बाह्ये विचित्राः प्रतिभाः कथम् ?॥९०१॥
अथ निर्विषया एता वासनामात्रभावतः। १. त्रुटिपक्षा-पा०, गा०।