________________
२४८
तत्त्वसंग्रहे प्रतिपुरुषं च सा भिद्यते। स तु तस्या अपरिमाणो भेदः शब्दव्यवहारस्यानन्त्यान्न शक्यते विधातुमित्यत आह–'समासत इति । अत्र दृष्टान्तमाह -
. बालानं च तिरश्चां च यथार्थप्रतिपादने ॥८९१॥
यथैव हि अङ्कशाभिघातादयो हस्त्यादीनामर्थप्रतिपत्तौ क्रियमाणाया प्रतिभाहेतवो भवन्ति, तथा सर्वेऽर्थवत्सम्मता वृक्षादयः शब्दा यथाभ्यासं प्रतिभामात्रोपसंहारहेतवो भवन्ति, न त्वर्थं साक्षात् प्रतिपादयन्ति; अन्यथा हि कथं परस्पस्पराहताः प्रवचनभेदा उत्पाद्यकथाप्रबन्धाश्च स्वविकल्पोपरचितपदार्थभेदद्योतकाः स्युरिति ॥ ८९१॥ तत्रेत्यादिना प्रतिविधत्ते
तत्रास्त्यर्थोऽभिधेयोऽयं किं स्वलक्षणमिष्यते। जातिर्योगोऽथ तद्वान्न बुद्धेर्वा प्रतिबिम्बकम् ॥८९२॥ . एतेषु दोषाः पूर्वोक्ता अस्त्यर्थे केवलेऽपि च।
प्रतिपाद्ये न भेदेन व्यवहारोऽवकल्प्यते ॥८९३॥ यद्यस्त्यर्थः पूर्वोदितस्वलक्षणादिस्वभाव इष्यते, तदा पूर्वोदितदोषप्रसङ्गः । किञ्चअनिर्धारितरूपविशेषत्वादस्त्यर्थस्य तस्मिन् केवले शब्दैः प्रतिपद्यमाने गौः, गवयः, गजःइत्यादिभेदेन व्यवहारो न स्यात्; तस्य शब्दैरप्रतिपदितत्वात् ॥ ८९२-८९३॥ [G.287] गोत्वेत्यादिना परस्योत्तरमाशङ्कते- '
गोत्वशब्दविशिष्टार्थसत्तामात्रगतेर्भवेत् ।
विषाणाकृतिनीलादिभेदाख्यातेस्तु तन्मतम् ॥ ८९४॥ स्यादेतत्-गोत्वशब्दाभ्यां विशिष्टस्यार्थसत्तामात्रस्य शाबलेयत्वादिभेदरहितस्य गोशब्दाद् गते:=प्रतीतेः कारणात् भेदेन व्यवहारो भविष्यतीति? यद्येवम्; कथं तर्हि शब्दार्थत्वमस्त्यर्थमात्रस्य मतम्, यावता गवादिविशेषः प्रतिपाद्योऽस्त्येव? इत्याशङ्कय परः परिहारमाहविषाणाकृतीत्यादि। विषाणादेर्विशेषस्य शब्दख्यातेरप्रतीतेः कारणात्। तदुक्तम्-'अस्ति कश्चिदर्थः प्रत्याय्यः' इति, न गोत्वादिशब्दयोर्विशेषणभूतयोरप्रतीतेरित्यदोषः ॥ ८९४ ॥ नन्वेवमित्यादिना प्रतिविधत्ते
नन्वेवं तद्वतोऽर्थस्य भेदानां चाभिधा भवेत्।
तद्भावे तत्र दोषश्च नान्योऽस्त्यर्थश्च दृश्यते ॥८९५ ॥ यदा गोत्वादिना विशिष्टमर्थमात्रमुच्यते इति मतम्, तदा तद्वतोऽर्थस्याभिधानमङ्गीकृतं स्यात्। तत्र च जातेस्तत्समवायस्य च निषेधात् तद्वतोऽर्थस्यासम्भव इति पूर्वोक्तो दोषः। किञ्च-तद्वतोऽर्थस्य स्वलक्षणात्मकत्वादशक्यसमयत्वमव्यवहार्यत्वम्, अस्पष्टावभासप्रसङ्गश्च पूर्ववदापद्यते एव। स्वलक्षणादिव्यतिरेकेणान्य एवास्त्यर्थ इति चेद् ? आह१.१. पा०. गा० पुस्तकयो स्ति। २. यदाऽन्या पा०: यद्वान्यत्-पा० । ३ ३ एते स्वदोषा:-पा०. गा० ।