________________
शब्दार्थपरीक्षा
बुद्धिविषय इति बुद्धौ विपरिवर्त्तमानः, बुद्धिस्थ इति यावत् । बाह्यवस्तुनिबन्धनः सदसद्बाह्यं वस्तु निबन्धनमक्षरचिह्नस्थानीयं स्वरूपमुदर्शयितुं प्रक्रम्यते यस्य स बाह्यवस्तुनिबन्धनः । बाह्यं वस्त्विति ज्ञात इति । बुद्धिरूपत्वेनाविर्भावितो बाह्यतयाध्यवसित इत्यर्थः । यथा हि- यावद् बुद्धिरूपमर्थेष्वप्रत्यस्तं बुद्धिरूपमेवेति सत्त्वभावनया गृह्यते, तावत् तस्य शब्दार्थत्वं नावसीयते; तत्र क्रियाविशेषसम्बन्धाभावात् । न हि गामानय, दधि खादेत्यादिकाः क्रियास्तादृशि बुद्धिरूपे सम्भवन्ति, क्रियायोगसम्भवी चार्थः शब्दैरभिधीयते । अतो बुद्धिरूपतया गृहीतोऽसौ न शब्दार्थः । यदा तु बाह्यवस्तुनि प्रत्यस्तो भवति; तदा तस्मिन् प्रतिपत्ता बाह्यतया विपर्यस्तः क्रियासाधनसामर्थ्यं तस्य मन्यत इति भवति शब्दार्थः ।
ननु चापोहवादिपक्षादस्य को विशेष:, तथा हि-अपोहवादिनाऽपि बुद्ध्याकारो बाह्यरूपतया गृहीतः शब्दार्थ इति भाष्यत एव यथोक्तम्
“तद्रूपारोपंगत्यान्यव्यावृत्त्यधिगते
पुनः । शब्दार्थोऽर्थः स एवेति वचने न विरुध्यते ॥"
(प्र० वा० २.१६९) इति ? नैतदस्ति; अयं हि बुद्ध्याकारवादी बाह्ये वस्तुभ्रान्तं सविषयं द्रव्यादिषु पारमार्थिकेष्वध्यस्तं बुद्ध्याकारं परमार्थतः शब्दार्थमिच्छति।
यदि तु यथाऽस्माभिरुच्यते
२४७
“सर्वो' मिथ्यावभासोऽयमर्थेष्वेकात्मना ग्रहः'।
इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका ॥" (प्र०वा० ३.७१) इति, तदा सिद्धसाध्यता । तथा च वक्ष्यति-
" इतरेतरभेदोऽस्य बीजं चेत् पक्ष एष नः " । (तत्त्व०९०४) इति । न चापोहवादिना परमार्थतः किञ्चिद् वाच्यं बुद्ध्याकारोऽन्यो वा शब्दानामिष्यते । [G.286] तथा हि-यदेव शाब्दे प्रत्यये व्यवसीयमानतया प्रतिभासतें स शब्दार्थः। न च बुद्ध्याकारः शाब्दप्रत्ययेन व्यवसीयते, किं तर्हि ? बाह्यमेवार्थक्रियाकारि वस्तु । न चापि तेन बाह्यं परमार्थतो व्यवसीयते, यथातत्त्वमनध्यवसायात्, यथाव्यवसायमतत्त्वात् । अतः समारोपित एव शब्दार्थः । यच्च समारोपितं तन्न किञ्चिदिति न किञ्चिद्भावतोऽभिधीयते शब्दैः । यत् पुनरुक्तम् - " शब्दार्थार्थः स एव" (प्र० वा० २.१७१ ) इति, तत्समारोपितमेवार्थमभिसन्धायं । बुद्ध्याकारवादिना तु बुद्ध्याकारः परमार्थतो वाच्य इष्यत इति महान् विशेषः ॥ ८९० ॥
•
अन्ये त्वाहुः - अभ्यासात् प्रतिभाहेतुः शब्दो न तु बाह्यार्थप्रत्यायक इति दर्शयतिअभ्यासात् प्रतिभाहेतुः सर्वः शब्दः समासतः ।
शब्दस्य क्वचिद्विषये पुनः पुनः प्रवृत्तिदर्शनम् = अभ्यासः । नियतसाधनावच्छिन्नक्रियाप्रतिपत्त्यनुकूला प्रज्ञा = प्रतिभा । सा प्रयोगदर्शनावृत्तिसहितेन शब्देन जन्यते, प्रतिवाक्यं
१- १. 'तस्मान्मिथ्याविकल्पोऽयमेकार्थेष्वात्मताग्रह:' इति तत्रस्थः पाठः ।
२. य एव- पा०, गा० ।
३. इतोऽग्रे गा० सम्पादक: 'तदेतत्' इत्यधिकं पाठमिच्छति ।