________________
२४६
तत्त्वसंग्रहे [G.284] नार्थीकारविशेषं बुद्धिषु सन्निवेशयन्ति, केवलं तत्रैतावत् प्रतीयते- सन्ति केऽप्यर्था येष्वपूर्वादयः शब्दाः प्रयुज्यन्त इति । तथा दृष्टार्थेष्वपि गवादिशब्दाभिधेयः, गोत्वादिसामान्यसम्बद्धो वेति । यस्तु तत्राकारविशेषपरिग्रहः केषाञ्चिदुपजायते, स तेषां सिद्धान्तबलात् ॥ ८८६ ॥ आदिशब्देनोपात्तान् शब्दार्थान् दर्शयन्नाह
समुदायोऽभिधेयो वाऽप्यविकल्पसमुच्चयः। केचिद् ब्राह्मणादिशब्दैस्तपोजातिश्रुतादिसमुदायो विना विकल्पसमुच्चयाभ्यामभिधीयत इत्याहुः, यथा वनादिशब्दैर्धवादय इति । तथा हि- 'वनम्' इत्युक्ते धवो वा, खदिरो वा, पलाशो वेति न विकल्पेन प्रतीतिर्भवति; नापि धवश्च खदिरश्च पलाशश्चेति समुच्चयेन; अपि तु सामान्येन प्रतीयन्ते धवादयः । तथा 'ब्राह्मणः' इत्युक्ते तपो वा जातिर्वा श्रुतं वा, तपश्च जातिश्च श्रुतं चेति न प्रतिपत्तिर्भवति; अपितु साकल्येन सम्बन्ध्यन्तरव्यवच्छिन्नास्तपःप्रभृतयः संहताः प्रतीयन्त इति । तत्र बहुष्वनियतैकसमुदायिभेदावधारणम् विकल्पः, एकत्र युगपदभिसम्बध्यमानस्य नियतस्यानेकस्य स्वरूपभेदावधारणम् समुच्चयः । अविद्यमानौ विकल्पसमुच्चयौ यस्य स तथोक्तः ।
असत्यो वापि संसर्गः शब्दार्थः कैश्चिदुच्यते॥८८७॥ अन्ये तु-द्रव्यत्वादिभिरनिर्धारितरूपैर्यः सम्बन्धो द्रव्यादीनां स शब्दार्थः, स च सम्बन्धिनां शब्दार्थत्वेनासत्यत्वादसत्य इत्युच्यते । यद्वा- तपः श्रुतादीनां मेचकवर्णवदैक्येन भासनादेषामेव परस्परम् 'असत्यः' संसर्गः। तथा ह्येते प्रत्येकं समुदिता वा न स्वेन रूपेणोपलभ्यन्ते, किन्त्वलातचक्रवदेषां समूहः स्वरूपमुत्क्रम्यावभासत इति ॥ ८८७॥
___ असत्योपाधि यत् सत्यं तद्वा शब्दनिबन्धनम्। __ अन्ये त्वाहुः- 'यदसत्योपाधि सत्यं स शब्दार्थः' इति। तत्र शब्दार्थत्वेनासत्या उपाधयो विशेषा वलयाङ्गलीयकादयो यस्य सत्यस्य, सर्वभेदानुयायि 'सुवर्णादिसामान्यात्मनः, तत् सत्मसत्योपाधि। शब्दनिबन्धनमिति। शब्दप्रवृत्तिनिमित्तमभिधेयमित्यर्थः।
शब्दो वाऽप्यभिजल्पत्वमागतो याति वाच्यताम्॥८८८॥ ___ अन्ये तु ब्रुवते- 'शब्द एवाभिजल्पत्वमागतः शब्दार्थः' इति ॥ ८८८॥ [G.285] तत्र कोऽसावभिजल्प:? इत्याह
सोऽयमित्यभिसम्बन्धाद् रूपमेकीकृतं यदा।
शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते॥८८९॥ शब्द एवार्थ इत्येवं शब्देऽर्थस्य निवेशनं सोऽयमित्यभिसम्बन्धः, तस्मात् कारणाद्यत् शब्दस्यार्थेन सहैकीकृतं रूपं भवति तं स्वीकृतार्थाकारं शब्दमभिजल्प्यमित्याहुः ॥ ८८९ ॥
__ अन्ये तु बुद्ध्यारूढमेवाकारं बाह्यवस्तुविषयं बाह्यवस्तुतया गृहीतं बुद्धिरूपत्वेनाविर्भावितं शब्दार्थमाहुः, तद्दर्शयति
यो वाऽर्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः। '
स बाह्यं वस्त्विति ज्ञातः शब्दार्थः कैश्चिदिष्यते॥८९०॥ १. सुवर्णाद:०-पा०. गा०/