________________
शब्दार्थपरीक्षा
२४५ अनन्तरा इति। स्वलक्षणमुक्ता जातिः तद्योगो जातिमानिति 'जातियोगयोरभावात् तद्वतोऽप्यसम्भव एव, तत्कृतत्वात् तद्व्यपदेशस्य; तद्वतश्च स्वलक्षणात्मकत्वात् । तत्पक्षभावी दोषः समान एवेति भावः।
_ 'जाति: पदार्थः' इति कात्यायनः, 'द्रव्यम्' इति व्याडिः, उभयं पाणिनिः; तदप्यनेनैव निरस्तम्, जातेरयोगाद् द्रव्यस्य च स्वलक्षणात्मकत्वात् तत्पक्षभाविदोषानिवृत्तेः ॥ ८८२ ॥ उपसंहरन्नाह
तव्यक्त्याकृतिजातीनां पदार्थत्वं यदुच्यते।
तदसम्भवति सर्वासामपि नीरूपता यतः॥८८३॥ तदिति तस्मात्। नीरूपतेति निःस्वभावता ॥ ८८३ ॥
[G.283] बुद्ध्याकारेऽपि सङ्केतसम्भवं प्रतिपादयन्नाह -
बुद्ध्याकारश्च बुद्धिस्थो नार्थबुद्ध्यन्तरानुगः।
नाभिप्रेतार्थकारी च सोऽपि वाच्यो न तत्त्वतः॥८८४॥ बुद्ध्याकारो हि तादात्म्येन बुद्धावेवावस्थित इति नासौ तद्बुद्धिस्वरूपवत् प्रतिपाद्यमर्थं बुद्ध्यन्तरं वाऽनुगच्छति । ततश्च सङ्केतव्यवहाराप्तकालाव्यापकत्वात् स्वलक्षणवन्न तत्रापि समयः सम्भवति। भवतु वा तस्य व्यवहारकालान्वयः, तथापि न तत्र समयो व्यवहर्तृणां युक्तः। तथा हि- अपि नामेत: शब्दादर्थक्रियार्थी पुमानर्थक्रियाक्षमानर्थान् विज्ञाय प्रवर्तिष्यते तेष्विति मन्यमानैर्व्यवहर्तृभिरभिधायक़ानि योज्यन्ते, न व्यसनितया। न चासौ विकल्पबुद्ध्याकारोऽभिप्रेतं शीतापनोदादि कार्यं तदर्थिनः सम्पादयितुमलम्, तदनुभवोत्पत्तावपि तदभावात्। तेन तत्रापि समयाभावान्नासिद्धः 'अकृतसमयत्वात्' इति हेतुः ॥ ८८४॥
. स्यादेतत्- अस्त्यर्थादयोऽपरे शब्दार्थाः सन्ति, ततश्च तत्र समयसम्भवादसिद्धतैव हेतोः? इत्यत. आह.- .
. .येऽन्येऽन्यथैव "शब्दार्थानस्त्यर्थादीन् प्रचक्षते। . . . निरस्ता एव तेऽप्येतैस्तथापि पुनरुच्यते॥८८५॥ एतैरिति स्वलक्षणादिशब्दार्थप्रतिषेधैः; तेषां स्वलक्षणादिष्वेवान्तर्भावादिति भावः
॥ ८८५ ॥
..
के पुनस्तेऽस्त्यर्थादयः? इति दर्शयन्नाह
अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम्। __ अपूर्वदेवतास्वर्गः सममाहुर्गवादिषु॥८८६॥ इतिशब्दो भिन्नक्रमः 'अस्त्यर्थः' इत्यस्यानन्तरं सम्बध्यते। तेनायमर्थो भवतिअस्त्यर्थ इति यदेतत् प्रतीयते, तत् सर्वशब्दानां प्रत्याय्यस्याभिधेयस्य लक्षणम्। शब्दार्थस्य लक्षणमिति यावत्। तेन गवादिष्वर्थेषु विषयभूतेषु यद्गवादिशब्दप्रत्याय्यं तदपूर्वदेवतास्वर्णैस्तुल्यमित्याहुः । अपूर्वादिशब्दार्थस्तुत्तुल्यमित्येवमाहुरित्यर्थः । यथैव ह्यपूर्वादिशब्दा १. जातितद्योगयो०- पा०, गा०। . २. वाजात्यायन:- पा० । ३-३. पार, गा०, पुस्तकयोनास्ति।
४. शब्दार्थमस्त्यादीन-पा०, गा० ।