________________
२४४
तत्त्वसंग्रहे
यदा द्रव्ये मूर्तिशब्दः, तदाऽधिकरणसाधनो द्रष्टव्यः-मूर्च्छन्त्यस्मिन्नवयवा इति मूर्तिः यदा तु रूपादिषुः; तदा कर्तृसाधनः-मूर्च्छन्ति द्रव्ये समवयन्तीति रूपादयो मूर्तिः । व्यक्ति शब्दस्तु द्रव्ये कर्मसाधन:, रूपादिषु करणसाधनः" (द्र०-न्या० द० वा० भा० २.२.६९)
भाष्यकारमतेन तु यथाश्रुति सूत्रार्थ:- गुणविशेषाणामाश्रयो द्रव्यमेव व्यक्तिर्मूर्ति श्चेति तस्येष्टम्। यथोक्तम्- "गुणविशेषाणां रूपरसगन्धस्पर्शानां गुरुत्वद्रवत्वघनत्वसंस्कारा णामव्यापिनश्च परिमाणविशेषस्याश्रयो यथासम्भवं तद् द्रव्य मूर्त्तिः, मूछितावयवत्वात्' (न्या० द०, वा० भा०, २.२.६९) इति।
आकृतिशब्देन प्राण्यवयवानां पाण्यादीनां तदवयवानां चाङ्गुल्यादीनां संयोगोऽभिधीयते। तथा च सूत्रम्- "आकृतिर्जातिलिङ्गाख्या" (न्या०. द० २.२.७०) इति। अस्प भाष्यम्-"यया जातिर्जातिलिङ्गानि चाख्यायन्ते तामाकृतिं विद्यात्, सा च नान्या सत्त्वावयवानां तदवयवानां च नियताद्व्यूहात्" (न्या० द०, वा० भा०, २.२.७०) इति । व्यूहशब्दे संयोगविशेष उच्यते। नियतग्रहणेन कृत्रिमसंयोगनिरासः । तत्र जातिलिङ्गानि प्राण्यवयवा शिर:पाण्यादयः, तैर्हि गोत्वादिलक्षणा जातिर्लिङ्गयते। आकृत्या तु कदाचित् साक्षाज्जातिय॑ज्यते-यदा [G.282] शिरःपाण्यादिसन्निवेशदर्शनाद् गोत्वं व्यज्यते। कदाचिज्जातिलिङ्गानि-यदा विषाणादिभिरवयवैः पृथक्पृथक्स्वावयसन्निवेशाभिव्यक्तैर्गोत्वादिळज्यते। तेन जातेस्तल्लिङ्गानां च प्रख्यापिका भवति आकृतिः । जातिशब्देनाभिन्नाभिधान प्रत्ययप्रसवनिमित्तं सामान्याख्यं वस्तूच्यते। तथा च सूत्रम्- "समानप्रसवात्मिका जाति:' (न्या० द० २.२.७१) इति समानप्रत्ययोत्पत्तिकारणं जातिरित्यर्थः।
तत्र व्यक्त्याकृत्योरेतेनैव स्वलक्षणस्य शब्दार्थत्वनिराकरणेन शब्दार्थत्वनिराकरण बोद्धव्यमिति दर्शयन्नाह
एतेनैव प्रकारेण व्यक्त्याकृत्योर्निराकृतिः। जातेस्तु पश्चानिराकरणं भविष्यतीत्यभिप्रायः । निराकृतिरति। शब्दार्थत्वेनेति शेष: कस्मात् ? इत्याह
स्वलक्षणात्मतैवेष्टा तयोरपि यतः परैः॥८८०॥ तयोरिति व्यक्त्याकृत्योः । तेन यथा स्वलक्षणस्याकृतसमयत्वादशब्दार्थत्वम्, तथ 'तयोरपि' इत्यत: 'अकृतसमयत्वात्' इत्यस्य हेतो सिद्धिः, नाप्यनैकान्तिकतेति भावः
॥ ८८०॥
किञ्च- व्यक्तिर्द्रव्यगुणविशेषकर्मलक्षणा, आकृतिश्च संयोगात्मिका; एते च द्रव्यादयः प्रागेव प्रतिषिद्धाः- इत्यतोऽपि शब्दार्थत्वमनयोरसद्भावान्न युक्तमिति दर्शयति
द्रव्यादियोगयोः प्राक् तु प्रतिषेधाभिधानतः।
न तात्त्विकी तयोर्युक्ता शब्दार्थत्वव्यवस्थितिः।। ८८१॥ एवं तावत् स्वलक्षणे समयासम्भवं प्रतिपाद्य, जात्यादिषु त्रिषु समयासम्भवं प्रतिपादयन्नाह
जातिसम्बन्धयोः पूर्वं व्यासत: प्रतिषेधनात्। नानन्तराः प्रकल्प्यन्ते शब्दार्थास्त्रिविधाः परे।। ८८२ ॥