________________
शब्दार्थपरीक्षा
'उष्णादिप्रतिभासा च' नोष्णादिध्वनिभाविनी ।
विष्पष्टा विद्यते बुद्धिः तदर्थेन्द्रियबुद्धिवत् ॥ ८७८ ॥
यथा हि उष्णाद्यर्थविषयेन्द्रियबुद्धिः स्फुटप्रतिभासा वेद्यते, न तथोष्णादिशब्दभाविनी; न ह्युपहतनयनरसनघ्राणादयो मातुलुङ्गादिशब्दश्रवणात् तद्रूपरसाद्यनुभाविनो भवन्ति, यथाऽनुपहतनयनादय इन्द्रियधियाऽनुभवन्तः । यथोक्तम्
'अन्यथैवाग्निसम्बन्धाद्दाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रकाश्यते ॥ " ( ) इति । तदर्थेन्द्रियबुद्धिवदिति वैधम्र्योदाहरणम् । स ' उष्णादिरर्थः = विषयो यस्याः सा तथोक्ता', तदर्था चासाविन्द्रियबुद्धिश्चेति विग्रहः ॥ ८७८ ॥
यदि नाम सा तथा न भवति, तथापि किमिति शब्दस्य स्वलक्षणमर्थो न भवति ?
इत्याह
२४३
44
न स तस्य च शब्दस्य 'युक्तोऽर्थो यो' न तत्कृते ।
प्रत्यये सति भात्यर्थी रूपबोधे यथा रसः ॥ ८७९॥
प्रयोगः - यो हि तत्कृते प्रत्यये न प्रतिभासते न स तस्यार्थः, यथा रूपजनिते प्रत्यये रसः, न प्रतिभासते च शाब्दे प्रत्यये स्वलक्षणमिति व्यापकानुपलब्धिः । अत्र चातिप्रसङ्गो बाधकं प्रमाणम् । तथा हि- शब्दस्य तद्विषयज्ञानजनकत्वमेव तद्वाचकत्वमुच्यते, नान्यत् । - न च यद्विज्ञानं यदाकरशून्यं तत्तद्विषयं युक्तम्; अतिप्रसङ्गात्। [G.281] न चैकस्य वस्तुनो रूपद्वयमस्ति स्पष्टास्पष्टम्, येनास्पष्टं वस्तुगतमेव रूपं शब्दैरभिधीयत इति स्यात्; एकस्य द्वित्वविरोधात्, भिन्नसमयस्थायिनां च परस्परविरुद्धस्वभावप्रतिपादनात् ॥ ८७९ ।।
1
नैयायिकास्तु ब्रुवते - " व्यक्त्याकृतिजातयस्तु पदार्थ: " (न्या० द० २.२.६८) इति । पदस्यार्थः पदार्थः, शब्दार्थ इति यावत् । तत्र व्यक्तिशब्देन द्रव्यगुणविशेषकर्माण्यभिधींयन्ते । तथा च सूत्रम्" व्यक्तिर्गुणविशेषाश्रयो मूर्त्तिः " ( न्या० द० २.२.६९) इति । अस्यार्थो वार्त्तिककारमतेनं तावदुच्यते- “विशेष्यत इति विशेष : गुणेभ्यो विशेषो गुणविशेषः, कर्माभिधीयते । द्वितीयश्चात्र गुणविशेषशब्द एकशेषं कृत्वा निर्दिष्टः, तेन गुणपदार्थो गृह्यते । गुणाश्च ते विशेषाश्चेति-गुणविशेषाः, विशेषग्रहणमाकृतिनिरासार्थम् । तथा ह्याकृतिः संयोगविशेषः; स्वस्वभावात् । संयोगश्च गुणपदार्थान्तर्गतः, ततश्चासति विशेषग्रहणे आकृतेरपि ग्रहणं स्यात् । न च तस्या व्यक्तावन्तर्भाव इष्यते; पृथक्शब्देन तस्या उपादानात् । आश्रयशब्देन द्रव्यमभिधीयते, तेषां गुणविशेषाणामाश्रयस्तदाश्रयो द्रव्यमित्यर्थः । सूत्रे तच्छब्दलोपं कृत्वा निर्देशः कृतः । एवं विग्रहः कर्त्तव्यः - गुणविशेषाश्च गुणविशेषाश्चेति गुणविशेषाः, गुणविशेषाश्च तदाश्रयश्चेति गुणविशेषाश्रयः, समाहरद्वन्द्वश्चायम्, 'लोकाश्रयत्वाल्लिङ्गस्य' इति नपुंसकलिङ्गानिर्देशः। तेनायमर्थो भवति - योऽयं गुणविशेषाश्रयः सा व्यक्तिश्चोच्यते, मूर्तिश्चेति । तत्र १- १. पा० पुस्तके नास्ति उष्णादिप्रतिपत्तिर्या- गाए । २-२. पा० पुस्तके नास्ति; भासते नेषा- गा । ४. वैधर्मोदो०- पा०, गा० ।
३. मातुलिङ्गार- पा०. गा० ।
६. ६. युकतो यांगो- पार. गाउ ।
७. तथा-गा ।
५-५. पा०, ग० पुस्तकयोर्नास्ति । ८. उद्योतकरमतेनेत्यर्थः ।