________________
२४२
तत्त्वसंग्रहे 'अशक्यसमय चेदं सर्वमेव स्वलक्षणम्। नाजाते समयो युक्तो भाविकोऽश्वविषाणवत्॥८७५ ॥ उपजाते गृहीते च यदा वाचामनुस्मृतौ।।
क्रियते समयस्तत्र चिरातीतं तदापि तत् ॥ ८७६ ॥ सर्व एव भावाः पूर्वं प्रसाधितोदयानन्तरापवर्गाः, तेषु समयः क्रियमाणः कदाचिदनुत्पनेषु वा क्रियेत? उत्पन्नेषु वा? तत्र न तावदनुत्पन्नेषु परमार्थेन समयो युक्तः; असतः सर्वोपाख्याविरहलक्षणत्वेनाधारत्वानुपपत्तेः । भाविकग्रहणं सांवृतनिषेधार्थम् । तेनाजातेऽपि पुत्रादौ समयदर्शनान्न दृष्टविरोधः; तस्य विकल्पनिर्मितार्थविषयत्वेनाभाविकत्वात्। अश्वविषाणवदिति। सप्तम्यन्ताद् वतिः । नाप्युत्पन्ने समयो युक्तः, तथा. हि-तस्मिन्ननुभवोत्पत्तौ सत्यां तत्पूर्वके च नामभेदस्मरणे सति समयः कार्यः, नान्यथा; अतिप्रसङ्गात्। ततश्च नामभेदस्मरणकाले क्षणध्वंसितया चिरनिरुद्धं स्वलक्षणमिति, नाजातवज्जातेऽपि भाविक: समयः समस्ति; समयक्रियाकाले द्वयोरप्यसन्निहितत्वात् । तथा हि अनुभवावस्थायामपि तावत् तत्कारणतया स्वलक्षणं क्षणिकं न सन्निहितसत्ताकं भवति, किं पुनरनुभवोत्तरकालंभाविनामभेदाभोगस्मरणोत्पादकाले भविष्यति!॥ ८७५-९७६ ॥ .. :
अथापि स्यात्- तज्जातीये तत्सामर्थ्यबलोपजाते समयक्रियाकालभाविनि क्षणे समय: करिष्यत इति? अत आह- .
यश्चापि "क्षण उत्पन्नस्तद्वलेन तदापरः।
न तत्र समयाभोग: सादृश्यं च विकल्पितम्॥८७७॥ यद्यपि समयक्रियाकाले सन्निहितं क्षणान्तरमस्ति, तथापि तत्र समयाभोगासम्भवान समयो युक्तः; न ह्यश्वमुपलभ्य तन्नामस्मरणोपक्रमपूर्वकं समयं कुर्वाणस्तत्कालसन्निहिते [G.280] गवादाभोगाविषयीकृते 'अश्वः' इति समयं समयकृत् कश्चित् करोति। अथापि स्यात्-सर्वेषां स्वलक्षणक्षणानां सादृश्यमस्ति, तेनैकत्वमध्यवसाय समयः करिष्यते? इत्याह-सादृश्यं च विकल्पितमिति। विकल्पबुद्धिसमारोपितं हि सादृश्यम्, तस्य च ध्वनिभिः प्रतिपादने सति स्वलक्षसमवाच्यमेव' स्यात्। तदेवं न स्वलक्षणासमयः सम्भवति। नापि शब्दस्वलक्षणस्य; तथा हि- समयकारः स्मृत्युपस्थापितमेव नामभेदमर्थे योजयति, न च स्मृतिर्भावतोऽनुभूतमेवाभिलापमुपस्थापयितुं शक्रोति; तस्य चिरनिरुद्धत्वात् । यच्चोच्चारयति तस्य पूर्वमननुभूतत्वान्न तत्र स्मृतिः, न चाविषयीकृतस्तया समुपस्थापयितुं शक्यः । अतः स्मृत्युपस्थापितमनुसन्धीयमानं विकल्पनिर्मितत्वेनास्वलक्षणमेवेति न स्वलक्षणस्य समयः। तस्मादव्यपदेश्यं स्वलक्षणमिति सिद्धम् ॥ ८७७॥
अत्रैव स्वलक्षणावाच्यत्वसिद्ध्यै प्रमाणान्तरमाह१-१. अशक्यं समय- पा०; अशक्यं समयस्यास्य जातेऽजाते च कल्पनम-गा। २.२ उपजाते गहीता.....वाचामनुस्मृतौ-पा०: नापि जाते गृहीतानां पूर्व वाचामनुस्मृतौ- गा० । ३३. चिराते......पा०: चिरातीते कथं नु तत्-गा। ४.४. ......लेन-पा०; तत्सजातीयस्तद्वलेन-गा०/ ५. स्वलक्षणमवाच्यमेव-पा०. गा०/
६. स्वलक्षणे समय:- पा. गा ।