________________
शब्दार्थपरीक्षा
) इत्यनेन निर्दिष्टः । तथा हि 'आनन्त्यात्'
२४१
वाचक:, [G.278] आनन्त्यात्" ( इत्यनेन समयासम्भव एव दर्शितः ।
44
तेन यदुद्द्योतकरेणोक्तम् - " यदि शब्दान् पक्षयसि, तदाऽऽनन्त्यादित्यस्य वस्तुधर्म-त्वाद् व्यधिकरणो हेतुः 1 अथ भेदा एव पक्षक्रियन्ते, तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्तीत्यहेतुरानन्त्यम्" ( ) इति, तत् प्रत्युक्तं भवति । पुनः स एवाह'यस्य निर्विशेषणा भेदाः शब्दैरभिधीयन्ते तस्यायं दोषः, अस्माकं तु सत्तादिविशेषणानि द्रव्यगुणकर्माण्यभिधीयन्ते । तथा हि- यत्र यत्र सत्तादिकं सामान्यं पश्यति तत्र तत्र सदादिशब्दं प्रयुङ्क्ते । एकमेव च सत्तादिकं सामान्यम्, अतः सामान्योपलक्षितेषु भेदेषु समयाक्रियासम्भवादकारणमानन्त्यम्" ( ) इति, तदेतदसंम्यक्; न हि सत्तादिकं वस्तुभूतं सामान्यं तेभ्यो भित्रमभिन्नं वाऽस्तीति प्रसाधितमेतत् । भवतु वा सामान्यम्, तथाप्येकस्मिन् भेदेऽनेकसामान्यसम्भवादसाङ्कर्येण सदादिशब्दप्रयोजनं न स्यात् । न च शब्देनानुपदर्श्य सत्तादिकं तेन सत्तादिना भेदान् परमुपलक्षयितुं समयकारः शक्नुयात् । न चाकृतसमयेषु सत्तादिशब्दप्रवृत्तिरस्ति; ततश्चेतरेतराश्रयदोषः स्यात् ।
अथापि स्यात् — स्वयमेव प्रतिपत्ती व्यवहारोपलम्भादन्वयव्यतिरेकाभ्यां सदादिशब्दैः समयं प्रतिपद्यत इति ? तदेतदसम्यक्; न ह्यनन्तभेदविषयं निःशेषं कश्चिद् व्यवहारमुपलभते । एकदा सत्तादिमत्सु भेदेष्वसकृद्व्यवहारमुपलभ्यादृष्टेष्वपि तज्जातीयेषु ताच्छब्दयं प्रतिपद्यत इति चेत् ? न; अदृष्टत्वात् । न ह्यदृष्टेष्वतीतानागतभेदभिन्नेष्वनन्तेषु भेदेषु समयः सम्भवति; अतिप्रसङ्गात् । विकल्पबुद्ध्या व्याहृत्य तेषु प्रतिपद्यत एवेति चेत् ? एवं तर्हि विकल्प - समारोपितार्थविषय एव शब्दसन्निवेशनम्, न परमार्थतो भेदेष्विति प्राप्तम् । तथा हिअतीतानागतयोरसंत्त्वेनासन्निहितत्वात् तत्र विकल्पबुद्धिर्भवन्ती निर्विषयैवेति तया व्याहृतमसदेव, ततश्च तत्र भवन् समयः कथं परमार्थतो वस्तुभूतो भवेत् ! इत्यलं बहुना । सपक्षे भावात् नापि हेतोर्विरुद्धतेति सिद्धम् - स्वलक्षणाविषयत्वं शब्दानाम् ॥ ८७२-८७३ ॥
-
स्यादेतत् — ये. हिमाचलादयो भावास्तेषां स्थिरैकरूपत्वान्न देशकालभेदादिभेदः सम्भवति, अत: संकेतव्यवहाराप्तकालव्यापकत्वात् तेषु समयः सम्भवतीत्यतः पक्षैकदेशासिद्धता हेतो:; ? इत्यत आह
हिमाचलादयो
१. ह्यनन्तरभेदविषयं - पार, गा० ।
२-२. पा० पुस्तके नास्तिः गा० पुस्तकं त्वयं पाठ: 'दृष्टास्तेष्वणवो भिन्ना:' इति ।
येऽपि देशकालाद्यभेदिनः । इष्टास्ते त्वणुशो भिन्ना क्षणिकाश्च प्रसाधिताः ॥ ८७४ ॥ [G.279] आदिशब्देन मलयादिपरिग्रहः । एते ह्यनेकाणुप्रचयस्वभावाः, अतो नैषामशेषावयव परिग्रहेण समयः समस्ति । प्रसाधितोदयानन्तरविनाशाश्च । तेनैतेष्वपि समयकालपरिदृष्टस्य स्वभावस्य न व्यवहारकालेष्वन्वयोऽस्तीति नासिद्धता हेतोः ॥ ८७४ ॥
एवं तावत् स्वलक्षणे व्यवहारानुपपत्तेः समयवैयर्थ्यप्रसङ्गान्न समयः सम्भवती प्रतिपादितम् । साम्प्रतमशक्यक्रियत्वादेव न सम्भवतीति प्रतिपादयन्नाह