________________
२४०
तत्त्वसंग्रहे सांवृतस्य शब्दार्थस्याप्रतिषेधं दर्शयति । तेन स्ववचनव्याघातो न भवति; अन्यथा हि प्रतिज्ञायाः स्ववचनविरोध: स्यात् । तथा हि- एतान् स्वलक्षणादीन् शब्देनाप्रतिपाद्य न शक्यमशब्दार्थत्वमेषां प्रतिपादयितुम्। तत्प्रतिपिपादयिषया च शब्देन स्वलक्षणादीनुपदर्शयता शब्दार्थत्वमेषामभ्युपेतं स्यात्। पुनश्च तदेव प्रतिज्ञया प्रतिषिद्धमिति स्ववचनव्याघातः। एतेन यदुक्तमुद्द्योतकरेण- "अवाचकत्वे शब्दानां [G.277] प्रतिज्ञाहेत्वोळघात:" ( ) इति, तदपि प्रत्युक्तं भवति, न हि सर्वथा शब्दार्थापवादोऽस्माभिः क्रियते, तस्यागोपालमति' प्रतीतत्वात्; किन्तु तात्त्विकत्वं धर्मो यः परैस्तत्रारोप्यते तस्य निषेधः क्रियते, न तु धर्मिणः ॥ ८७०॥ तत्र स्वलक्षणे तावत् सङ्केतसम्भवोपदर्शनादशब्दार्थत्वं प्रतिपाद्यन्नाह
तत्र स्वलक्षणं तावन्न शब्दैः प्रतिपाद्यते। .
सङ्केतव्यवहाराप्तकालव्याप्तिवियोगतः ॥८७१॥ न शब्दैः प्रतिपाद्यतइति । तत्र सङ्केताभावादिति भावः । कथं सङ्केताभावः? इत्याहसङ्केतेत्यादि । सङ्केतव्यवहाराभ्यामाप्त:=प्राप्तो यः कालः, तस्य व्याप्तिः=व्यापनम्, तया वियोगात् कारणात्। न तत्र स्वलक्षणे समय इति शेषः। एतदुक्तं भवति- समयो हि व्यवहारार्थं क्रियते, न व्यसनितया। तेन यस्यैव सङ्केतव्यवहाराप्तकालव्यापकत्वमस्ति, तत्रैव समयो व्यवहर्तृणां युक्तः, नान्यत्र । न च स्वलक्षणस्य संकेतव्यवहाराप्तकालव्यापकत्वमस्ति, तस्मान तत्र समय इति ॥ ८७१॥ कस्मात् पुनः स्वलक्षणस्य संकतेव्यवहाराप्तकालव्यापकत्वं न सम्भवति? इत्याह
व्यक्त्यात्मानोऽनुयन्त्येते न परस्पररूपतः। देशकालक्रियाशक्तिप्रतिभासादिभेदतः ॥८७२॥ तस्मात् सङ्केतदृष्टोऽर्थो व्यवहारे न दृश्यते।
न चागृहीतसङ्केतो गम्यतेऽन्य इव ध्वनेः॥८७३॥ शाबलेयादयो हि व्यक्तिभेदा देशादिभेदेन परस्परतोऽत्यन्तव्यावृत्तमूर्तयः, नैते परस्परमन्वाविशन्ति। तत्रैकत्र कृतसमयस्य पुंसोऽन्यैर्व्यवहारो न स्यात्। प्रतिभासादीत्यादिशब्देन वर्णसंस्थानावस्थाविशेषादिपरिग्रहः । व्यवहारे न दृश्यत इति । तेन तत्र समयाभावान्नासिद्धता हेतोरिति भावः । न चाप्यनैकान्तिकत्वमिति दर्शयन्नाह-न चागृहीतेत्यादि। गृहीतः संकेतो यत्र स तथा, न गृहीतसंकेतोऽगृहीतसंकेतः। ध्वनेरिति शब्दात् । अन्य इवेत। विजातीयार्थवत्। एतदुक्तं भवति-यद्यगृहीतसंकेतम) शब्दः प्रतिपादयेत्, तदा गोशब्दोऽप्यश्वं प्रतिपादयेत्, संकेतकरणानर्थक्यं च स्यात्। तस्मादतिप्रसङ्गापत्तिर्बाधकं प्रमाणमिति सिद्धा व्याप्तिः।
____ अयमेव च 'अकृतसमयत्वात्' इति हेतुराचार्यदिङ्नागेन "न जातिशब्दो भेदानां १. गोपालमपि-पा०, गा०।
२. पा० पुस्तके नास्ति; बोध्येताo-गा। ३. व्यवहारकाले- जै०; व्यवहारो- पा०, गा०। ४-४. पा०, गा० पुस्तकयोरयं पाठः 'विजातीयार्थवत्' इत्यस्यानन्तरमस्ति। .