________________
शब्दार्थपरीक्षा
कान्तिकता हेतोः; साध्यविपर्यये बाधकप्रमाणाभावात् । अथ येन केनचिन्निमित्तेन सनिमित्तत्वमिष्यते, तदा सिद्धसाध्यता । तथा ह्यस्माभिरिष्यत एवैषामन्तर्जल्पवासनाप्रबोधो निमित्तम्, न तु विषयभूतम्; भ्रान्तत्वेन पूर्वस्य शाब्दप्रत्यस्य निर्विषयत्वात् । अन्तर्मात्रानिविष्टमिति । विज्ञानसन्निविष्टम्, वासनेति यावत्॥ ८६८ ॥
एतदेवागमेन 'संस्पन्दयन्नाह
२३९
यस्य यस्य हि शब्दस्य यो यो विषय उच्यते ।
सङ्घटते नैव वस्तूनां सा हि धर्मता ॥ ८६९ ॥ यो यो विषय इति । स्वलक्षणसामान्यादिः । सा हि धर्मतेति । सा= सर्ववाक्यपथातीतत्वं वस्तूनां स्वभाव इति यावत् । यथोक्तम्
"येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते । न स संविद्यते तत्र धर्माणां सा हि धर्मता" ॥ ( ल० सू० - ३.८२ ) इति ॥ ८६९ ॥ अथ शाब्दप्रत्ययस्य भ्रान्तत्वाविषयत्वयोः किं प्रमाणमिति चेत् ? उक्तमत्र [G.276] प्रमाणमस्माभिर्यद् भिन्नेष्वभेदाध्यवसायेन प्रवृत्तेः सर्व एवायं शाब्दप्रत्ययो भ्रान्त इति । तथा हि- योऽतस्मिंस्तदिति प्रत्ययः स भ्रान्तः, यथा - मरीचिकायां जलप्रत्ययः । तथा चायं भिन्नेष्वर्थेष्वभेदाध्यवसायी शाब्दप्रत्यय इति स्वभावहेतुः । न च सामान्यं वस्तुभूतं ग्राह्यमस्यास्ति, येनासिद्धता हेतोरिति स्यात्; 'पूर्वं विस्तरेण निरस्तत्वात्। भवतु वा सामान्यम्, तथापि तस्य भेदेभ्योऽर्थान्तरत्वे भिन्नेष्वभेदाध्यवसायो भ्रान्तिरेव, न ह्यन्येनान्ये समाना युक्तास्तद्वन्तो नाम स्युः । अनर्थान्तरत्वेऽपि सामान्यस्य सर्वमेव विश्वमेकमेव वस्तुपरमार्थत इति तत्र सामान्यस्य प्रत्ययो भ्रान्तिरेव । न ह्येकवस्तुविषयः सामान्यप्रत्ययः; भेदग्रहणपुरःसरत्वात् तस्य। भ्रान्तत्वे च सिद्धे निर्विषयत्वमपि सिद्धम् । स्वाकारार्पणेन जनकस्य कस्यचिदर्थस्यालम्बनलक्षणप्राप्तस्याभावात् ।
= प्रकृतिः,
अथ वा- अन्यथा निर्विषयत्वं साध्यते - तत्रैव हि कृतसमया ध्वनयः, स एव तेषामर्थो युक्तः, नान्य: ; अतिप्रसङ्गात् । न च क्वचिद् वस्तुन्येषां परमार्थतः समय: समस्तीत्यतो निर्विषया धीध्वनयः । प्रयोगः - ये यत्र भावतः कृतसमया न भवन्ति, न ते परमार्थतस्तमभिदधति, यथा सास्त्रादिमति पिण्डेऽश्वशब्दोऽकृतसमयः । न भवन्ति च भावतः कृतसमयाः सर्वस्मिन् वस्तुनि `सर्वे ध्वनय इति व्यापकानुपलब्धेः । कृतसमयत्वेनाभिधायकत्वस्य व्याप्तत्वात्, तस्य चेहाभावः । न चायमसिद्धो हेतुरित्यादर्शयन्नाह
यतः स्वलक्षणं जातिस्तद्योगो जातिमाँस्तथा ।
२. पा० पुस्तके नास्तिः संविद्यते गा० ।
५. तथा पा०, गा० ।
बुद्ध्याकारो न शब्दार्थे घटामञ्चति तत्त्वतः ॥ ८७० ॥
"यथा हि गृहीतसमयं वस्तु शब्दार्थत्वेन व्यवस्थाप्यमानं कदाचित् स्वलक्षणं वा व्यवस्थाप्यते, जातिर्वा, तद्योगो वा, तया=जात्या योगः = सम्बन्धः, यद्वा जातिमान्, पदार्थबुद्धेर्वा आकारः -- इति विकल्पाः । तत्र सर्वेष्वेव समयासम्भवान्न युक्तं शब्दार्थत्वम् । तत्त्वतइत्यनेन १. समर्थयन्नित्यर्थः ।
३. शब्दप्रत्ययस्य- पा०, गा० !
४. सामान्यपरीक्षायामित्यर्थः ।