________________
१६. शब्दार्थपरीक्षा
आरोपिताकारशब्दप्रत्ययगोचरत्व ( तत्त्व० २ ) समर्थनार्थं प्रस्तावमारचयन्नाहयदि नोपाधयः केचिद् विद्यन्ते पारमार्थिकाः । दण्डी शुक्लश्चलत्यस्ति' गौरिहेत्यादिधीध्वनी' ॥ ८६६ ॥ स्यातां किंविषयावेतौ नानिमित्तौ च तौ मतौ । सर्वस्मिन्नविभागेन तयोर्वृत्तेरसम्भवात् ? ॥ ८६७ ॥ वस्त्वेव हि परमार्थतः शब्दप्रत्ययग्राह्यम्, अतः शब्दैः साक्षाद् विधिनिषेधाभ्यां वस्तुस्वभावप्रतिपादनाद् विधिरेव शब्दार्थ इति विधिशब्दार्थवादिनां दर्शनम् । अपोहवादिनां तु-न परमार्थतः शब्दानां किञ्चिद्वाच्यं वस्तुस्वरूपमस्ति, सर्व एव हि शाब्द: ' प्रत्ययों' भ्रान्तः; भिन्नेष्वर्थेष्वभेदाकाराध्यवसायेन प्रवृत्तेः । यत्र तु पारम्पर्येण वस्तुप्रतिबन्ध:, तत्रार्थासंवादो भ्रान्तत्वेऽपीति दर्शनम् । तत्र यत्तदारोपितं विकल्पधियाऽर्थेष्वभिन्नं रूपं तदन्यव्यावृत्तपदार्थानुभवबलायातत्वात् स्वयं चान्यव्यावृत्ततया प्रख्यानाद् भ्रान्तैश्चान्यव्यावृत्तार्थेन सहैक्येनाध्यवसितत्वादन्यापोढपदार्थाधिगतिफलत्वाच्च 'अन्यापोढः ' [G.275] इत्युच्यते। तेना पोह: शब्दार्थ इति प्रसिद्धम् ।
तत्र विधिवादिनश्चोदयन्ति - यदि भवतां द्रव्यगुणकर्मसामान्यविशेषसंमवायलक्षणा उपाधयो विशेषणानि शब्दप्रत्ययं प्रतिं निमित्तानि परमार्थतो न सन्ति, तत् कथं लोके दण्डीत्यभिधानप्रत्ययाः प्रवर्त्तन्ते द्रव्याद्युपाधिनिमित्ताः । तथा हि- 'दण्डी', 'विषाणी', इत्यादिधीध्वनी लोके द्रव्योपाधिकौ प्रसिद्धौ; 'शुक्लः', 'कृष्णः '- इति गुणोपाधिकौ; 'चलति', 'भ्रमति'इति कर्मनिमित्तौ; 'अस्ति', 'विद्यते ' - इति सत्ताप्रवृत्तिनिमित्तकौ गौरश्वो हस्ती इति सामान्यविशेषोपाधी, ‘इह तन्तुषु पट: ' इति समवायबलात् । तत्रैषां द्रव्यादीनामभावे दण्डीत्यादिधीध्वनी निर्विषयौ स्यातामिति । आदिग्रहणं प्रत्येकमभिसम्बध्यते, तेन प्रत्येकम् 'छत्री', ‘विषाणी' इत्यादिसमानजातीयधीध्वनीनां ग्रहणं भवति । अन्त्यास्तु विशेषा योगिनामेव ग्राह्या इति न तेषामादिशब्देन परिग्रहः । न चानिमित्तावेतौ युक्तौ; सर्वत्राविशेषेण सर्वदा तयोर्वृत्तिप्रसङ्गात्, न चाविभागेन तयोः प्रवृत्तिरस्ति । तस्मात् सन्ति द्रव्यादय इति परः । प्रयोगः - ये परस्परमसङ्कीर्णप्रवृत्तयस्ते सनिमित्ताः, यथा श्रोत्रादिप्रत्ययाः । असङ्कीर्णप्रवृत्तयश्च दण्डीत्यादिशब्दप्रत्यया इति स्वभावहेतुः । अनिमित्तत्वे सर्वत्राविशेषेण प्रवृत्तिप्रसङ्गो बाधकं प्रमाणम्
॥ ८६६-८६७ ॥
उच्यत इत्यादिना प्रतिविधत्ते
;
उच्यते - विषयोऽमीषां धीध्वनीनां न कश्चन ।
अन्तर्मात्रानिविष्टं तु बीजमेषां निबन्धनम् ॥ ८६८ ॥
तत्र यदि मुख्यतो बाह्येन विषयभूतेन सनिमित्तत्वमेषां साधयितुमिष्टम्, तदाऽनै
१. पा० पुस्तके नास्ति: परमार्थत:- गा० । ४. ० वृत्तिरसम्भवी - पा०, गा० ।
२. २...... रिहंत्यादिधी... - पा० 1. ३. पा० पुस्तके नास्ति ।
५-५. शब्दप्रत्ययो- पार, गा