________________
समवायपदार्थपरीक्षा ...
२३७ 'अतः प्रागपि तद्भावान ते वृत्ताः स्युराश्रये।
पश्चादिव तथा ह्येषा वृत्तिस्तेषां 'न वस्तुतः ॥८६३॥ प्रागपि सम्बन्धिनाशात्। अविनष्टसम्बन्ध्यवस्थायामपीत्यर्थः। ते घटादयः स्वाश्रये वृत्तास्तस्य समवायस्य भावात् सद्भावबलान सिध्येयुः, पश्चादिव विनष्टसमवायिकारणवत्; परमार्थतो वृत्त्यभावात्। तथा हीत्यादिना हेत्वथं दर्शयति ।। ८५९-८६३ ॥
अथान्य एव संयोगविभागबहुतादिवत्। सम्बन्ध्यन्तरसद्भावे समवायोऽवतिष्ठते॥८६४॥ संयोगादिवदेवं हि नन्वस्य बहुता भवेत्।
एवमाद्यस्य सद्भावे बहु स्यादसमञ्जसम्॥८६५॥ [G.274] अथान्य एवेति द्वितीयः पक्षः, तदा संयोगादिवत् समवायबहुत्वं प्राप्नोति, ततश्च न समवायो भेदवानित्यस्याभ्युपेतस्य हानिः।
एवमादीत्यादिशब्देन कारणवैफल्यम्, अनेकसूत्रविरोधः, प्रत्यक्षादिविरोधः, सर्वपदार्थानामक्रमोत्पत्तिः-इत्यादिदोषान्तरपरिग्रहः। तथा हि-स्वकारणसमवायः सत्तासमवायो वा जन्मोच्यते, समवायश्च नित्य इति न क्वचिदपि कार्यजन्मनि कारणानां सामर्थ्यमिति कारणवैफल्यम्। तथा "अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः" (वै० द० ७.२.१०); "इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम्" (न्या० द० १.१.४) इत्यादिजन्मप्रतिपादकसूत्रविरोधः । तथा प्रत्यक्षादिप्रतीतानि कारणानि शालिचक्षुरादीनि विरुध्यन्ते। तथा समवायलक्षणस्य जन्मनो नित्यतया न क्रमोऽस्तीति क्रमोत्पत्तिर्दृष्टभावानां विरुध्यते। ततश्च "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" (न्या०. द० १.१.१६) इति स्वसिद्धान्तव्याहतिः । नित्यत्वाच्च जन्मनोऽनुपकार्योपकारकभूतं जगदिति व्यर्थशास्त्रप्रणयनमित्यादि बहुतरमसमञ्जसमालूनविशीर्णं स्यात् ।। ८६४-८६५ ॥
इति समवायपदार्थपरीक्षा॥
२-२. तषामवस्तुत:-पा०, गा०।
१. सद्भावान-पा०, गा०। ३-३. प्रत्यक्षप्रतीतकारणानि चक्षुरादीनि-पाल, गा०।