________________
२३६
तत्वसंग्रहे
सम्बन्धिनां वा स्थितिः प्राप्नोति; अविनष्टसम्बन्धत्वात्, अनुपरतसंयोगद्रव्यद्वयवत् । अन्यथा तत्सम्बन्धस्वभावहानिरुभयेषामपि प्रसज्येत ॥ ८५६-८५७ ॥
एकसम्बन्धनाशेऽपीत्यादिना परः प्रत्यवतिष्ठते
एकसम्बन्धिनाशेऽपि
समवायोऽवतिष्ठते ।
अन्यसम्बन्धिसद्भावाद् योगो नो चेन्न' 'भेदतः ॥ ८५८ ॥ एवं मन्यते - यदि प्रथमे हेतौ विनष्टाशेषसम्बन्धित्वादिति हेत्वर्थोऽभिप्रेतः, तदा पक्षैकदेशासिद्धता हेतोः । न ह्यशेषाणां सम्बन्धिनां विनाशः क्वचिदस्ति; प्रलयेऽपि परमाण्वादीनामविशिष्यमाणत्वात्। अथ यथाकथञ्चिद्विनष्टं सम्बन्धित्वसम्बन्धमधिकृत्यहेतुरुच्यते, तदाऽनैकान्तिकता । यदि नामैकः सम्बन्धी क्वचिद्विनष्टः, तथाप्यपरसम्बन्धिनिबन्धनावस्थितिरस्य भविष्यति। यद्येवम्, संयोगस्याप्यनया नीत्या नित्यत्वं प्राप्नोतीत्याशङ्कय [G.273] परः प्रतिविधत्ते - न भेदत इति । संयोगो हि प्रतिसंयोगि भिद्यते । तेनास्यानित्यत्वं युक्तम्, समवायस्तु — इहप्रत्ययनिबन्धनस्याभिन्नत्वादेक एव जगति । तेनास्यानित्यत्वमयुक्तम्; अन्यत्रापि सम्बन्ध्यन्तरे तस्योपलभ्यमानत्वात् ॥ ८५८ ॥
यद्येवमित्यादिना प्रतिविधत्ते
यद्येवं ये निवश्यन्तिं घटाद्याः समवायिनः ।
तेषां वृत्त्यात्मको योऽसौ समवायः प्रकल्पितः ॥ ८५९ ॥ स एव व्यवतिष्ठेत किं सम्बन्ध्यन्तरस्थितेः । अथान्य एव संयोगविभागबहुतादिवत् ॥ ८६० ॥ तद्वृत्तिलक्षणस्यैव समवायस्य संस्थितौ । पूर्ववत् ते स्थिता एव प्राप्नुवन्ति, घटादयः ॥ ८६१ ॥ ये तेषामनवस्थाने तेषां 'वृत्त्यात्मकः कथम् । समवायोऽवतिष्ठेत संज्ञामात्रेण वा तथा ॥ ८६२ ॥
तथा हि-ये ते विनश्यन्ति घटादयः स्वकारणादिसमवायिनः, तेषां स्वकारणेषु वृत्त्यात्मको योऽसौ समवायः कल्पितः, स एव किं तेषु विनष्टेषु सम्बन्ध्यन्तरेष्वस्ति, आहोस्विदन्य एव, यथा संयोगो बहुत्वं वा प्रतिसंयोगि भिद्यते । आदिशब्दाद् विभागादिपरिग्रहः ।
तत्र यद्याद्यः पक्षः, तदा प्रागवस्थावदप्रच्युतप्रवृत्तित्वादवस्थिता एव घटादयः प्राप्नुवन्ति तेषां वा घटादीनामनवस्थानेऽनवस्थितप्रवृत्तित्वान्नावस्थितिः समवायस्य प्राप्नोति, अन्यथा न वृत्त्यात्मकः स्यात् । तथाभूतस्य च स्वतन्त्रस्यानुपकारिणो वृत्तिः समवाय इति वा नामकरणे संज्ञामात्रमेव स्यात्, न तु वस्तुतथाभावस्तथेति तद्वृत्त्यात्मक इत्येवम्, ततः संज्ञामात्रान्वयो दोष:, तं दर्शयति
१- १. चेद्वि- जै० । २-२. विनष्टसम्बन्धि०- पा०, गा० । ३. संयोग....... बहुतादिवत् पा०गा० । 'सम्बन्ध - संख्या न बहुतादिवत्' इति पाठान्तरं जै० पुस्तके लिखितम् । ४. नादयस्तल्लक्षणस्यैव- पा०, गा० । ५. न पा०, गा० । ६- ६. पा० पुस्तके नास्ति; ०क्वचित् गा० । ७. सम..... वतिष्ठेत पा० ।