________________
समवायपदार्थपरीक्षा
२३५
पूर्वमिति । संयोगपदार्थदूषणे । भवतु नाम संयोग एक:; तत्रापि तुल्य एव प्रसङ्ग इति दर्शयति- न चासावित्यादि । तस्मादिति संयोगात् । 'दध्नि कुण्डम्' इत्यादिबुद्धिप्रसङ्गोऽतिप्रसङ्गः; संयोगस्य निमित्तस्य निर्विशिष्टत्वात् ॥ ८५२ ॥
यच्चोक्तम्–“कारणानुपलब्धेर्नित्यः समवायः (तत्त्व० ८२५) इति, तत्राह - नित्यत्वेनास्य सर्वेऽपि नित्याः प्राप्ताः घटादयः ' ।
स्वाधारेषु सदा तेषां समवायो न संस्थितेः ॥ ८५३ ॥
यदि हि समवायो नित्यः स्यात्, तदा घटादीनामपि नित्यत्वप्रसङ्गः; स्वाधारेषु तेषां सर्वदाऽवस्थानात् । तथा हि- समवायास्तित्वादेवैषां स्वाधारेष्ववस्थानमिष्यते, स च समवायो नित्य इति किमिति सदाऽमी न सन्तिष्ठेरन् ! ॥ ८५३ ॥ स्वारम्भकेत्यादिना परस्योत्तरमाशङ्कते
स्वारम्भकविभागाद्वा यदि वा तद्विनाशतः ।
ते नश्यन्ति क्रियाद्याश्च योगादेरिति चेन्न तत् ॥ ८५४ ॥ स्वाधारैस्समवायो हि तेषामपि सदा मतः ।
तेषां विनाशभावे तु नियताऽस्यापि नाशिता ॥ ८५५ ॥ स्यादेतत्-घटादीनां ये स्वारम्भकावयवास्तेषां विभागाद्विनाशाद्वा घटादीनां [G.272] विनाशः । यथा घटस्योद्वेष्टनपाकावस्थयोः क्रियादयः स्पर्शवद्द्रव्यसंयोगादिभ्यो विनश्यन्ति । अथोक्तम्–' स्पर्शवद्द्रव्यसंयोगात् कर्मणो नाशः, कार्यविरोधि च कर्म" ( ) इति । तथा बुद्धेर्बुद्ध्यन्तराद् विनाशः शब्दस्य शब्दान्तरादिति परप्रक्रिया । तेन सत्यपि समवायेऽवस्थितिहेतौ सहकारिकारणान्तराभावाद्विरोधिप्रत्ययोपनिपाताच्च न नित्यत्वप्रसङ्गो घटादीनामिति परस्य भावः । न तदित्यादिना प्रतिषेधति । नैतद्युक्तम्; यतस्तेषामपि स्वारम्भकावयवानां ‘कपालादीनां स्वारम्भकेष्ववयवान्तरेषु समवाय:, तेषामप्यन्येषु यावत्परमाणुरवशिष्यते, तस्य च परमाणोर्नित्यत्वान्नान्यथात्वमस्ति, ततश्च सर्वेषां स्वारम्भकेष्वयवेषु समवायः सर्वदाऽस्त्येवेति कुतो विनाशः, विभागो वा । न केवलं तदारब्धानां द्रव्याणाम्, क्रियादीनां चेत्यपिशब्देन दर्शयति । यदि तु स्वारम्भकाणामवयवानां विनाशोऽभ्युपगम्येत; तदा नियतमस्य समवायस्यापि विनाशः प्राप्नोति ॥। ८५४-८५५ ॥
कस्मात् ? इत्याह
सम्बन्धिनो निवृत्तौ हि सम्बन्धोऽस्तीति दुर्घटम् । एतदेव घटयन्नाह -
न हि संयुक्तनाशेऽपि संयोगो व्यवतिष्ठते ॥ ८५६ ॥ यथा संयोगभावे तु संयुक्तानामवस्थितिः ।
समवायस्य सद्भावे तथा स्यात् समवायिनाम् ॥ ८५७ ॥ ततश्च विनष्टसम्बन्धित्वान्नष्टसंयोगिसंयोगवदनित्यः समवायः प्राप्नोतीत्युक्तं भवति ।
३. क्रियादीव- पा०, गा० ।
१. 'घटादय:' इति पा० पुस्तके नास्ति । ४-४. पा०, गा० पुस्तकयोर्नास्ति ।
२. आधारेषु पा०, गा० ।
५. नावतिष्ठते ।