________________
पुण्यता
.
२३४
तत्वसंग्रहे न ह्यस्माकं रूपत्वादीनां रूपादिष्वाधेयनियमः सिद्धः, किन्तु भवतामेव; स च सर्वत्र समवायमेकमेवाभ्युपगच्छता दुर्घट इत्यादिप्रसङ्गापादानं क्रियते। तथा हि-'द्रव्य एव द्रव्यत्वम्' इत्येवं यो नियम इष्यते स समवायबलादेव, तस्य च द्रव्यत्वादेर्यः समवायः स एव गुणादिष्वप्यस्ति; गुणत्वादिजात्या तेषां सम्बन्धत्वात्। यदि नाम सम्बन्धः, तथापि स एव तत्र समवायोऽस्तीति कथमवसीयते? इत्याह-एक एवेत्यादि। तयोरिति द्रव्यत्वगुणादिजात्योः । ततश्चभिन्ननिमित्तत्वात् तत्सङ्करप्रसङ्गो दुर्निवार इति भावः ॥ ८४५-८४६ ॥
अन्यथा गुणजात्यादिभिन्न एव भवेदयम्। - योगिभेदात् प्रतिव्यक्ति यथा योगो विभिद्यते ॥८४७॥
अन्यथेति। यदि द्रव्ये द्रव्यत्वस्य यः समवायः स एव गुणादिषु गुणत्वादीनां न भवेत्, तदा संयोगवत् प्रत्याधारं समवायो भिद्यते ॥ ८४७॥
यच्चोक्तम्-"द्रव्यत्वादिनिमित्तानाम्" (तत्त्व० ८४२) इत्यादि, तत्राह____ द्रव्यत्वादिनिमित्तानां व्यतिरेको न युज्यते।
धियां निमित्तसद्भावादतस्तन्नियमोऽपि न ॥८४८॥ न ह्यविकले निमित्ते सति कार्यस्य व्यतिरेकोऽभावो युक्तः; अतत्कार्यत्वप्रसङ्गात् । ततश्च धियां व्यतिरेकायोगात् तस्याप्याधाराधेयभावस्य नियमो न युक्तः ॥ ८४८ ॥ ननु द्रव्य एव द्रव्यत्वमाश्रितं स्थितमित्यादिव्यपदेशतो नियतो भविष्यतीत्याह
तदाश्रितत्वस्थानादि तस्मादेवाभिधीयते।
समवायादतश्चैतन्त्र युक्तं तनियामकम् ॥ ८४९।। तस्मादेव हि समवायादाश्रितत्वादिव्यवस्थानमुपवर्ण्यते भवद्भिः, तस्य च सर्वत्राविशिष्टत्वे कथमेष नियमो योक्ष्यते। तस्मादेतदप्याश्रितत्वादि न तस्याधाराधेयभावस्य नियामकमयुक्तम्'; आधाराधेयभावेन सहैकयोगक्षेमत्वादेषाम् ॥ ८४९॥ [G.271] व्यङ्ग्यव्यञ्जकशक्तिप्रतिनियमात्तर्हि नियमो भविष्यति? इत्याह
व्यङ्ग्यव्यञ्जकसामर्थ्यभेदोऽपि समवायतः।
नान्यतस्तु स नित्यानामुत्पादानुपपत्तितः । ८५०॥ द्रव्यत्वादिसामान्यव्यञ्जकत्वं द्रव्यादीनां यदुच्यते तत्समवायबलादेव। तथा हियत एव द्रव्यत्वं द्रव्ये समवेतम्, तत एव तेन तव्यज्यत इत्युच्यते। अन्यत इति। सौगतोपवर्णितात् ज्ञानोत्पादनयोग्यस्वभावोत्पादनात्। यस्मानित्यानामपि सत्तादीनां समवाय इष्टः, न च नित्यानामुत्पत्तिर्युक्ता ॥ ८५०॥ एतदेव न हीत्यादिना समर्थयते
न हि दीपादिसद्भावाजायन्ते यादृशा इमे।
विज्ञानजनने योग्या घटाद्या जातयस्तथा ॥८५१॥ यश्चापि दधिकुण्डसंयोगो दृष्टान्तत्वेनोक्तः, सोऽप्यस्माकमसिद्ध इति दर्शयति
कुण्डदनोश्च संयोग एकः पूर्वं निराकृतः।
न चासौ नियतस्तस्माद् युज्यतेऽतिप्रसङ्गतः ॥८५२॥ १. श्रितत्वादी-जै०। २. नियामकं युक्तम्- पा०, गा०। ३. 'अतिप्रसङ्गतः' इति पा० पुस्तके नास्ति।