________________
समवायपदार्थपरीक्षा
२३३ पटस्य समवायः कपालेषु, तत्कथं सङ्करो न स्यात्। तत्=तस्मात्, धीरनवधि:=अवधिरहिता . भवेत्। ततश्च द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सम्बन्धस्यैकत्वात्। पञ्चपदार्थविभागो न स्यात् ॥ ८३४-८३८॥ [G.269] एवमित्यादिना गजादिषु गवादिबुद्धि प्रसङ्ग समर्थयते--
एवं यश्च गजत्वादिसमवायो गजादिषु। .
गोत्वादिजातिभेदानां स एव स्वाश्रयेष्वपि॥८३९॥ आधारेत्यादिनाऽत्र प्रशस्तमतेस्तरमाशङ्कते
आधाराधेयनियमः स चैकत्पवेऽपि विद्यते।
द्रव्येष्विव हि तज्जातिकर्मस्वेव च कर्मता ॥८४०॥ स ह्याह-यद्यप्येकः समवायः, तथापि पञ्चपदार्थसङ्करो न भवति आधाराधेयनियमात् । तथा हि-द्रव्येष्वेव द्रव्यत्वम्, गुणेष्वेव गुणत्वम्, कर्मस्वेव कर्मत्वम्-इत्येवं द्रव्यत्वादीनां प्रतिनियताधारावच्छेदेन प्रतिपत्तिरुपजायते॥ ८४० ॥ यद्येवम्, तर्हि समवायः प्रतिपदार्थं भिन्नः प्राप्नोति? इत्याह
इहेति समवायोत्थविज्ञानान्वयदर्शनात्। सर्वत्र समवायोऽयमेक एवेति गम्यते ॥८४१॥ द्रव्यत्वादिनिमित्तानां व्यतिरेकस्य दर्शनात्।
धियां द्रव्यादिजातीनां नियमस्त्ववसीयते ॥८४२॥ इहेति समवायनिमित्तस्य प्रत्ययस्य सर्वत्राभिन्नाकारतयाऽन्वयदर्शनात् सर्वत्रैक: समवाय इति गम्यते। सत्यपि चैकत्वे द्रव्यत्वादिनिमित्तानां धियां प्रतिनियताधारावच्छेदेनोत्पत्तेः व्यतिरेकस्यानन्वयलक्षणस्य दर्शनाद् द्रव्यत्वादिजातीनां व्यतिरेको विज्ञायते। तेन पञ्चपदार्थसङ्करो न भवति ॥ ८४१-८४२ ॥
कथं पुनः सम्बन्धाविशेषेऽप्यमीषामाधाराधेयप्रतिनियमो युज्यते? इत्याह... .तद्यथा कुण्डदनोश्च संयोगैक्येऽपि दृश्यते। .
आधाराधेयनियमस्तथेह नियमो मतः ॥८४३॥ .. व्यङ्गयव्यञ्जकसामर्थ्यभेदाद् द्रव्यादिजातिषु।
समवायैकभावेऽपि नैव चेत् स विरुध्यते ॥८४४॥ यथा हि कुण्डदनोः संयोगैकत्वेऽपि भवत्याश्रयाश्रयिप्रतिनियमः,तथा द्रव्यत्वादीनां समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयप्रतिनियम इति। स इति आधाराधेयनियमः ॥ ८४३-८४४॥ [G.270) आधारादेय इत्यादिना प्रतिविधत्ते
आधाराधेयनियमो नन्वेकत्वेऽस्य दुर्घटः।। द्रव्यत्वं द्रव्य एवेष्टं कथं तत्समवायतः ॥८४५॥ तस्यासौ समवायश्च गुणादिष्वपि विद्यते। गुणजात्यादिसम्बन्धादेक एव ह्ययं तयोः ॥८४६॥