________________
२३२
तत्वसंग्रहे उभयोस्तु किमर्थं प्रयोगः? इत्याह
रूपकुम्भादिशब्दा हि सर्वावस्थाभिधायकाः। तद्विशेषाभिधानाय तथा ते विनिवेशिताः ॥८३२॥ तानाश्रित्यैषु विज्ञानं तेनाकारेण वर्त्तते।
समवायान्न भेदस्य सर्वेषामप्यनीक्षणात् ॥८३३॥ रूपादिशब्दा हि सर्वावस्थस्य रूपादेर्वाचकाः । तथा हि-यथा घटात्मनाऽवस्थितरूपादि रूपादीत्युच्यते, तथा पटाद्यात्मनाऽवस्थितमपि, ततश्च केवलेभ्यो रूपादिशब्देभ्यो न विशेषः प्रतीयते-किमवस्था रूपादय इति। घटे रूपादयः' इत्येवं तु प्रयोगे. घटात्मकास्ते' इति पटादिव्यवच्छेदेन प्रतीयन्ते। तथा घटशब्दोऽपि सर्वावस्थं घटं ब्रूते-शुक्लं पीतं चलं निश्चलमित्यादिकम्, अत: केवलान विशेषप्रतीतिः। घटे शुक्लं रूपम्' इत्यादिप्रयोगे तु तदन्यरूपादिव्यवच्छेदेन प्रतिपत्तिर्भवति, ततश्च तस्यैवम्भूतस्य विशेषस्याभिधानाय यथा तथा घटे रूपमिति ये निवेशिताः । [G.268] शब्दा इति शेषः । तान् शब्दानाश्रित्यैषु घटादिषु तेनाकारेण घटे रूपमित्यादिना प्रवर्त्तते ज्ञानम्, न तु समवायमाश्रित्य वर्त्तप्त इति सम्बन्धः ।
- अत्र कारणमाह-भेदस्येत्यादि । न हि समवायघटरूपादीनां सर्वेषां परस्परतो भेद उपलभ्यते,येनेयं समवायनिबन्धना बुद्धिर्भवेत् । एतेन हेतोरनैकान्तिकत्वम्, प्रतिज्ञायांश्चानुमानादिबाधितत्वमुक्तम् ॥ ८३२-८३३॥ - यच्चोक्तम्-"इहबुद्ध्यविशेषात्" (तत्त्व० ८२४) इत्यादि, तत्राह
यद्येकः समवायः स्यात् सर्वेष्वेव च वस्तुषु। कपालादिष्वपि ज्ञानं पटादीति प्रसज्यते ॥८३४॥ गजादिष्वपि गोत्वादि समस्तीत्यनुषज्यते। ततो गवादिरूपत्वममीषां शांवलेयवत् ॥८३५॥ पटस्तन्तुषु योऽस्तीति समवायात् प्रतीयते। अस्ति चासौ कपालेषु तस्येति न तथेति किम् ॥८३६॥ नाश्रितः स कपाले चेन्ननु तन्तुष्वपीष्यते। । आश्रितः समवायेन स कपालेऽपि नास्ति किम्॥८३७॥ तन्तोर्यः समवायो हि पटस्येत्यभिधीयते।
स घटस्य कपालेषु तद्धीरनवधिर्भवेत् ॥८३८॥ यद्येकस्त्रैलोक्ये समवाय: स्यात् 'तदा कपालेषु पट:२' इत्यादयोऽपि धियः प्रसूयेरन्। अश्वादिषु च गोत्वादिर्विद्यत इत्येवं स्यात्। ततश्च शावलेयादिभेदवद् गजादिष्वपि गवादिप्रत्ययो भवेत्। तथा हि-तन्तुषु पट इति यत्समवायबलात् प्रतीतिरुपवर्णिता, स समवायस्तस्य पटस्य कपालादिष्वप्यस्तीति किमिति तथा प्रतीतिर्न भवेत् ! स्यादेतत्-न कपाले पट आश्रित इति यत्समवायबलादुपवर्ण्यते, स समवायः किं कपालेषु नास्ति, येन तत्र तन्तुष्विव पटोऽस्तीति तद्बुद्धिर्न भवेत्। किन्तु य एव तन्तौ पटस्य समवाय इति निर्दिश्यते, स एव १.ते-पार गा.।
२. पा०, गा० पुस्तकयांनास्ति। ___३-३. कपालेषु किं- पा०, गा०।।