________________
२३१
समवायपदार्थपरीक्षा नानात्वलक्षणे हि स्यादाधाराधेयभूतयोः । इदमत्रेति विज्ञानं कुण्डादौ श्रीफलादिवत् ॥ ८२७॥ नैव तन्तुपटादीनां नानात्वेनोपलक्षणम्।
‘विद्यते येन तेषु स्युरिदमत्रेति बुद्धयः ॥८२८॥ ययोर्हि नानात्वमुपलक्षितं भवेत् तयोरेवाधाराधेयभावे सतीहबुद्धिरुद्भवन्ती लोके दृष्टा, यथेह कुण्डे श्रीफलादीति । न च तन्तुपटयो नात्वमुपलक्षितम्, विद्यते च, तत् कथं तत्रेहबुद्धिर्भवेत्।। ८२७-८२८॥
स्यादेतद्-यदि नामाऽस्माभिः सिद्धान्तबलादुपकल्पितेयमिहमतिः, तथाप्यस्या भवद्भिर्निबन्धनं वक्तव्यम्? इत्याह
स्वेच्छया रचिते वास्मिन् कल्पितेष्वेव वस्तुषु।
न कारणनियोगोऽयं परं प्रत्युपपदयते ॥८२९॥ यो हि यत्कारणमेव नेच्छति स कथं कार्यं स्वयमुपकल्प्य तत्कारणं पर्यनुयुज्येत । आत्मैव हि भवता पर्यनुयोक्तव्यः, येनेदं कार्यमुपकल्पितमिच्छावशात्, नैवेच्छानां वस्तुस्वभावानुरोधः; स्वातन्त्र्यवृत्तित्वादासाम्। नातो वस्तुसिद्धिः; अनवस्थाप्रसङ्गात्। तथा हिभवदुपकल्पितस्यापि हि वस्तुनः कैश्चिदन्यथापि कल्पयितुं शक्यत्वात्॥ ८२९॥
अपि च न केवलम् ‘इह तन्तुषु पटः' इत्यादिका धियो लोके न सिद्धाः, किन्तु तद्विपरीता एव प्रसिद्धा इति दर्शयन्नाह
वृक्षे शाखा: शिलाश्चाग इत्येषा लौकिकी मतिः। ...: अगाख्यपरिशिष्टाङ्गनैरन्तर्योपलम्भनात् ॥८३०॥
तौ पुनस्तास्विति ज्ञानं लोकातिक्रान्तमुच्यते। [G.267] वृक्षे शाखाः, पर्वते शिला-इत्येवं लोके दृश्यते, न तु शाखायां वृक्षः, शिलासु पर्वत इति । सापि च वृक्षे शाखेत्यादिका मतिर्न समवायवशात्; किन्तु अगाख्यानि यानि परिशिष्टानि विवक्षितशाखाशिलाव्यतिरिक्तान्यधोव्यवस्थितानि स्कन्धादीन्यङ्गानि, तेषां नैरन्तर्योपलम्भात्। अगशब्देनात्र 'न गच्छन्ति' इति कृत्वा तरचो गिरयश्चाभिप्रेताः। ताविति अग-वृक्षौ। तास्विति शिला-शाखासु। ___यत् त-दमिह घटे रूपरसगन्धस्पर्शाश्चलनं च-इत्यादि लोके प्रसिद्ध ज्ञानम्, तस्य : समवायं मुक्त्वा कोऽन्यो विषयः? इत्याह
घटे रूपं क्रियादीति तादात्म्यं त्ववगच्छति ॥८३१॥ तादात्म्यम्=घटस्वभावत्वम्, रूपादीनामवगच्छति ज्ञानं लोको वेति शेषः । घटे रूपम्= घटस्वभावं रूपम्, न 'घटाद्यत्मकमित्यर्थः । बहुषु रूपादिषु साधारणशक्तिविशेषप्रतिपादनेच्छया तदन्यरूपादिव्यवच्छेदेन घटादिश्रुतेर्निवेशः, रूपादिश्रुतिस्तु प्रत्येकमसाधारणचक्षुर्विज्ञानादिकार्यनिर्वर्तनसामर्थ्य द्योतनाय निवेशितेत्यतो घटादिश्रुती रूपादिभेदानाक्षिपतीति सामानाधिकरण्याभावाद्वैयधिकरण्येनैव तादात्म्यं प्रतिपाद्यते ॥ ८३०॥ १. श्रीफलानीति- पा०. गा० ।
२. पटा०- ०।