SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १५. समवायपदार्थपरीक्षा समवायदूषणार्थमाह तन्तुष्वेव पटोऽमीषु वीरणेषु कटः पुनः। इत्यादीहमतेर्भावात् समवायोऽवगम्यते ॥८२२॥ अयुतसिद्धानामाधार्याधारभूतानामिहबुद्धिहेतुर्यः सम्बन्धः स समवायः,स चायम् 'इह तन्तुषु पटः' इत्यादीहबुद्धिविशेषतो द्रव्यादिभ्योऽर्थान्तरत्वेनावगम्यते। यथा हि सत्ताद्रव्यत्वादीनां स्वाधारेष्वात्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश्चार्थान्तरभावः, तथा समवायस्यापि पञ्चसु पदार्थेषु-इह तन्तुषु पटः, इह द्रव्ये गुणकर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम्, इह गुणेषु गुणत्वम्, इह कर्मणि कर्मत्वम्, इह द्रव्येष्वन्त्या विशेषाः-इत्यादिप्रत्ययदर्शनात् पञ्चभ्यः पदार्थेभ्योऽर्थान्तरत्वं गम्यते। प्रयोगः-'यो येषु यदाकारविलक्षणः प्रत्ययः, स तदर्थान्तरनिबन्धनः, यथा देवदत्ते दण्डीति प्रत्ययः । तथा चायं पञ्चसु पदार्थेष्विहप्रत्यय इति स्वभावहेतुं मन्यते ॥ ८२२॥ . . प्रतिबन्धमस्य दर्शयन्नाह तस्याभावे भवेत् किं हि मतेरस्या निबन्धनम्। न विशेषमतिर्दृष्टा निमित्तान्तरवर्जिता ॥८२३॥ इहबुद्ध्यविशेषाच्च योगवन्न विभिद्यते। सर्वस्मिन् भाववत्त्वेष एक एव प्रतीयते ॥८२४॥ कारणानुपलब्धेश्च नित्यो भाववदेव सः। न ह्यस्य कारणं किञ्चित् प्रमाणेनोपलभ्यते ॥८२५॥ निबन्धनमन्तेरण भवतो नित्यं सत्तादिप्रसङ्गो बाधकं प्रमाणम्। एवं तावद् वैशेषिकाणां मतेन-इहबुद्धिलिङ्गानुमेयः समवायः, नैयायिकमतेन तु इहबुद्धिप्रत्यक्षगम्य एव। तथा हि-ते अक्षव्यापारे सतीह तन्तुषु पट इत्यादिप्रत्ययोत्पत्तेः प्रत्यक्षत्वमाचक्षते। स चायं समवायो यथा संयोगः सम्बन्धेषु भिन्नः, तथा नायं [G.266] भिद्यते, किं तर्हि ? भाववत् सत्तावत् तल्लिङ्गाविशेषाद् विशेषलिङ्गाभावात् सर्वत्रैक एव समवायः । योगवदिति । वैधर्म्यदृष्टान्तः । अकारणत्वाच्च भाववदेव नित्यः सिद्धः, अकारणत्वं च प्रमाणतः कारणानुपलब्धेः सिद्धम्॥ ८२३-८२५॥ तदेतदित्यादिना दूषणमारभते तदेतदिहविज्ञानं परेषामेव वर्त्तते। स्वसिद्धान्तानुरागेण न दृष्टं लौकिकं तु तत् ॥८२६ ॥ तदनेन हेतोराश्रयासिद्धतामाह। इह तन्तुषु पटः' इत्यादिका हि धियः स्वसिद्धान्तानुरागोपकल्पिता एव। न तु लोके तथोत्पद्यमानाः संवेद्यन्त इत्यतः सांध्यधर्मी न सिद्धः ॥ ८२६ ॥ नानात्वेत्यादिना तामेव धर्म्यसिद्धिं समर्थयते १ सचेत्-पाल गा०।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy