________________
विशेष (पदार्थ) परीक्षा
२२९ स ह्याह-"यथा श्वमांसादीनां स्वत एवाशुचित्वम्, तद्योगाच्चान्येषाम्, तथेहापि तादात्म्यादन्त्येषु विशेषेषु स्वत एव व्यावृत्तिप्रत्ययहेतुत्वम्, तद्योगात् परमाणुषु" (वै० द० भा० स० प्र०)। किञ्च-"अतदात्मकेष्वप्यन्यनिमित्तः प्रत्ययो भवत्येव, यथा घटादिषु प्रदीपात्, न तु प्रदीपेषु घटादिभ्यः" (वै०द०भा०स०प्र०) इति। नियतोऽयमिति । घटादिः। इदं तथेत। वैलक्षण्योपलक्षणं विशेषेभ्य एवाण्वादीनाम्, विशेषाणां तु स्वत एवेत्यर्थः ॥ ८१६-८१७॥ ननु चेत्यादिना प्रतिविधत्ते
ननु चाशुचिभावोऽयं सांवृतो न तु तात्त्विकः। तत् स्वयं परतो वाऽयं कथं नाम भविष्यति ! ॥८१८॥ अथ वा भाविकत्वेऽपि श्वमांसादिवशादिमे। जायन्तेऽशुचयो भावा नैव नित्या अजन्मतः ॥८१९॥ प्रदीपादिप्रभावाच्च ज्ञानोत्पादस्वरूपताम्। लभन्ते क्षणिका अर्थाः कलशाभरणादयः ॥८२०॥ न विवादास्पदीभूतविशेषबलभाविनी।
वैलक्षण्यमतिस्तेषु क्रमोत्पत्तेः सुखादिवत् ॥८२१॥ अशुचित्वं हि नाम भावानां कल्पनोपरचितम्, न पारमार्थिकम्; अनवस्थितत्वात्। तथा हि-यदेव द्रव्यं कस्यचिच्छोत्रियादेरशुचित्वेनाभाति, तदेवान्यस्य कोटिङ्गादेः शुचित्वेन, न चैकस्य परस्परप्रत्यनीकानेकरूपसम्पातों युक्तः; एकत्वहानिप्रसङ्गात्।
अथ वा-भवतु भाविकमशुचित्वं भावानाम्, तथापि नेदं दृष्टान्तेन समम्। तथा हि-श्वमांसादिकाशुचिद्रव्यसम्पर्कादन्नादयो भावाः परित्यक्तपूर्वशुचिस्वभावा अन्य एवाशुचयो जायन्ते, ततो युक्तमेषां परोपाधिकमशुचित्वम्। न त्वेवं किञ्चित् परमाण्वादिषु निबन्धनमस्ति, येनैषां परोपाधिकं वैलक्षण्यं भवेत्तेषाम्'; नित्यत्वादेवाजन्मतोऽनुत्पत्तेः । [G.265] एवं प्रदीपदृष्टान्तेऽपि घटादीनां ज्ञानोत्पत्तिहेतुत्वं परोपाधिकं योज्यम्। नेत्यादिना विशेषाणां बाधकं प्रमाणमाह । तस्यापि पूर्ववत्, स्वरूपम्, प्रतिबन्धश्च वाच्यः॥८१८-८२१॥
इति विशेषपरीक्षा॥
३. कौटिकादे:-पा०, गा०।
१. पा०, गा० पुस्तकयोनास्ति। ४. अतो-पा०, गा०।
२. ह्याः -पा०, गा०। ५. भवेत्तथा-पा०, गा०।