________________
शब्दार्थपरीक्षा
२५५ च्छेदावसायिनी जायते, किं तर्हि ? अश्वादिष्वर्थेषु विधिरूपावसायिनी, तेन वस्त्वेव विधिरूपं वाच्यं कल्प्येत युक्तिमत्, नापोहः; बुद्ध्यन्तरस्य बुद्ध्यन्तरानपोहकत्वात् ॥ ९२१ ॥
किञ्च-योऽयं भवद्भिरपोहः पदार्थत्वेन कल्पितः, स वाक्यादपोद्धृत्य कल्पितस्य पदस्यार्थ इष्टः, मक्यार्थस्तु प्रतिभालक्षण एव । यथोक्तम्
"अपोद्धारे पदस्यायं वाक्यादर्थो विवेचितः।
वाक्यार्थः प्रतिभाख्योऽयं तेनादावुपजन्यते॥"( ) इति? अत्रोच्यते
असत्यपि च बाह्येऽर्थे प्रतिभालक्षणो यथा। - पदाथोऽपि तथैव स्यात् किमपोहः प्रकल्प्यते ॥९२२॥
यथा बाह्येऽर्थे शब्दवाच्यत्वेनासत्यपि वाक्यार्थो भवद्भिः प्रतिभालक्षण एव वर्ण्यते, नापोहलक्षणः, तथा पदार्थोऽपि वाक्यार्थवत् प्रतिभालक्षण एव स्यादित्यपोहः पदार्थतया किमिति कल्प्यते ! द्वयोरपिंपदवाक्यार्थर्विधिरूपत्वमेवास्त्विति भावः ॥ ९२२ ॥
स्यादेतत्-प्रतिभायाः प्रतिभान्तराद् विंजातीया व्यवच्छेदोस्तीत्यतोऽपोहः कल्प्यते? इत्याह
बुद्ध्यन्तराद् व्यवच्छेदो न च बुद्धेः प्रतीयते।
स्वरूपोत्पादमात्राच्च नान्यसंज्ञं बिभर्ति सा ॥९२३॥ [G.295] यद्यप्यसौ न प्रतीयते, तथाप्यस्त्येवेति चेत् ? आह-स्वरूपोत्पादेत्यादि । यद्यपि बुद्धेर्बुद्धयन्तराट्यावृत्तिरस्ति, तथापि तस्यां न शब्दव्यापारोऽस्ति। तथा हि-शब्दादियं बुद्धिरुत्पद्यमाना न.स्वरूपोत्पादव्यतिरेकेणान्यं बुद्ध्यन्तरव्यवच्छेदलक्षणं शब्दादवसीयमानमंशं बिभ्रती लक्ष्यते, किं तर्हि ? विधिरूपावसायिन्येवोत्पद्यत इत्यर्थः । न च शब्दादवसीयमानो वस्त्वंशः शब्दार्थो युक्तः; अतिप्रसङ्गात् । तस्मात् प्रतीतिबाधितत्वं प्रतिज्ञाया इति भावः ॥ ९२३ ॥ पुनरपि प्रसङ्गापादनेन प्रतीत्यादिबाधितत्वमेव दर्शयन्नाह
भिन्नसामान्यवचना विशेषवचनाश्च ये।
- सर्वे भवेयुः पर्याया यद्यपोहस्य वाच्यता ॥९२४॥ ये हि भिन्नसामान्यवचना गवाश्वाददयः, ये च विशेषवचनाः शाबलेयादयस्ते सर्वे भवतां पर्यायाः प्राप्नुवन्ति; अर्थभेदाभावात्, वृक्षपादपादिशब्दवत्॥ ९२४॥ कस्मात् पुनरर्थभेदो न सम्भवति? इत्याह
संसष्टैकत्वनानात्वविकल्परहितात्मनाम् । . अवस्तुत्वादपोहानां नैव भेदोऽपि विद्यते ॥९२५॥
वस्तुन्येव हि संसृष्टत्वैकत्वनानात्वविकल्पाः सम्भवन्ति, नावस्तुनि; अपोहानां चावस्तुत्वान्न परस्परं संसृष्टत्वादिविकल्पो युक्तः, तत् कथमेषां परस्परं भेदः सिध्यति!॥९२५ ।। १-१. पा० पुस्तके नास्ति;० च वाक्यार्थ:०- गा०। २-२. पा० पुस्तके नास्ति; ० च बुद्धौ-गा० । ३-३.पा० पुस्तके नास्ति; विधिरूपावसायिनी-गा०। ४. ०विकल्प-....पा०, विकल्परहितो हि स:-गा। ५. पा० पुस्तके नास्ति।