________________
२५६
तत्त्वसंग्रहे अथ भेदस्तेषामभ्युपगम्यते, तथा सति नियमेन वस्तुत्वमापद्यते इति दर्शयति
यदि वा भिद्यमानत्वाद् वस्त्वसाधारणांशवत्।
अवस्तुत्वे 'त्वनानात्वात् पर्यायत्वान्न मुच्यते ॥९२६॥ वस्त्विति साध्यनिर्देशः । प्रयोगः-ये परस्परं विभिद्यन्ते ते वस्तु, यथा.स्वलक्षणानि। परस्परं विभिद्यन्ते चापोहा इति स्वभावहेतुः। ततश्च वस्तुत्वे सति विधिरेव शब्दार्थ इति सिद्धम् । एतेन चानुमानबाधितत्वं प्रतिज्ञाया उक्तं भवति। अथावस्तुत्वमभ्युपगम्यतेऽपोहानाम्, तदा नानात्वाभावात् पूर्ववत् पर्यायत्वप्रसङ्ग इत्येकान्त एषः ॥ ९२६॥ [G.296] अत्र परो बौद्धस्य परिहारमाशङ्कते
ननु चापोह्यभेदेन' भेदोऽपोहस्य सेत्स्यति। ... यथोक्तम्-"अपोह्यभेदाद्भिन्नार्थाः स्वार्थभेदगतौ जडाः" (. ) इति। ततश्च स्वतो भेदाभावेऽप्यपोह्यस्याश्वादेर्भेदादपोहस्यागवादिव्यावृत्तिरूपस्य भेदे सिद्धे न पर्यायत्वं भविष्यति। .. न विशेष इत्यादिना परो दूषणमाह
न विशेषः स्वतस्तस्य परतश्चौपचारिकः ॥९२७॥ स्वतो न तस्यापोहस्य विशेषो नानात्वमस्ति; अभावैकरसत्वात्परतोऽप्यसौ भवन् काल्पनिकः स्यात्, न पारमार्थिकः । न हि स्वतोऽसतो भेदस्य परतः सम्भवो युक्तः ॥ ९२७ ॥ कस्मान युक्तः? इत्याह
संसर्गिणोऽपि चाधारा यं न भिन्दन्ति रूपतः।
अपोहै: स । बहिःसंस्थैर्भिद्यतेत्यतिकल्पना ॥९२८॥ तथा हि-संसर्गिण: सम्बन्धिनः शाबलेयादयः, आधारा: अन्तरङ्गा अपि सन्तः, यम्=अपोहम्, रूपतः स्वभावतो भेत्तुमशक्ताः; बहुष्वपि शाबलेयादिष्वेकस्यागोव्यवच्छेदलक्षणस्यापोहस्य प्रवृत्तेरिष्टत्वात्, स कथं बहिरङ्गभूतैरपोरिश्वादिभिर्भिद्येत। न हि यस्यान्तरङ्गोऽप्यर्थो न भेदकस्तस्य बहिरङ्गो भविष्यति; बहिरङ्गत्वहानिप्रसङ्गात्। तस्मादतिशयवती कल्पनेयमित्युपहसति ॥ ९२८॥ एवं तन्तिरङ्गा एवाधाराः संसर्गिणो भेदका भविष्यन्तीति चेत् ? आह
तथैवाधारभेदेनाप्यस्य भेदो न युज्यते। अस्येति अपोहस्य। कस्मान्न युज्यते? इत्याह
न हि सम्बन्धिभेदेन भेदो वस्तुन्यपीष्यते ॥९२९॥ किमुतावस्त्वसंसृष्टम् अन्यतश्चानिवर्तितम् ।
अनवाप्तविशेषांशं यत् किमित्यनिरूपितम् ॥९३०॥ १-१.पा० पुस्तके नास्ति, वस्तु साधाo-गा। २.पा० पुस्तके नास्ति। ३. मुच्यते-पा०, गा० । ४. निश्चय इत्यर्थः।
५. चाश्वादिभेदेन-पा०, गा०। ६. ०श्वोपजायते-पा०, गा० । ७. साधारा-पा०, गा०।
८-८. अपोटे.....ति कल्पना-पा०; अपोर्विहिरङ्गैस्स भिद्येते०-गा। ९. न भविष्यन्तीति-पा०, गा०। १०. ०मव्यावृत्तं निवर्तते-पा०, गा०। ११-११.अविशेषांशं यत्यनिरूपितम्-पा०; अत एवाविशेषाशं यद्धिमत्यनिरूपितम्-गा।