________________
शब्दार्थपरीक्षा
२५७ आस्तां तावद्-यदवस्तु सम्बन्धिभेदान्न भिद्यत इति, 'तस्य निःस्वभावत्वात्; वस्तुन्यपि हि यावत् सम्बन्धिभेदाढ़ेदो नोपलभ्यत एव। तथा हि-देवदत्तादिकमेकं वस्तु युगपत्, क्रमेण वाऽनेकैरासनादिभिः सम्बध्यमानमनासादितभेदमेवोपलभ्यते, किं पुनर्यदन्यव्यावृत्ति रूपमवस्तु ! [G.297j अवस्तुत्वादेव च क्वचिदसंसृष्टम् असम्बद्धम्, अन्यतश्च विजातीयादव्यावृत्तमवस्तुत्वादेव। अत एवानधिगतविशेषांशं तत्तादृशं सम्बन्धिभेदादपि कथमिव भेदमश्रुवीत ।। ९२९-९३० ।। .
किञ्च-भवतु नाम सम्बन्धिभेदाद् भेदः, तथापि वस्तुभूतसामान्यानभ्युपगमे भवतां स एवापोहाश्रयः सम्बन्धी न सिध्यति । 'यस्य भेदात् तद्भेदोऽवकल्प्यत इति दर्शयति
न चाप्रसिद्धसारूप्यानपोहविषयात्मना । . शक्तः कश्चिदपि ज्ञातुं गवादीनविशेषतः५ ॥९३१॥ यदि हि गवादीनां वस्तुभूतं सारूप्यं प्रसिद्धं भवेत्, तदाऽश्वाद्यपोहाश्रयत्वमेषामविशे-.. षेण सिध्येत्, नान्यथा, ततश्चापोहविषयत्वंमेषामिच्छताऽवश्यं सारूप्यमङ्गीकर्तव्यम्, तदेव . च सामान्यं वस्तुभूतं शब्दावाच्यं भविष्यतीत्यपोहकल्पना "निरर्थिकैवेति भावः । विषय-: शब्दोऽत्राश्रयवचनः,जलविषया मत्स्या इति यथा ॥ ९३१॥
यैरप्यपोह्यभेदेन भेदः कल्प्यते, तेषां सोऽपि वस्तुभूतसामान्यमन्तरेण न सिध्यतीति दर्शयति
अपोह्यानपि चाश्वादीनेकधर्मान्वयादृते ।
न निरूपयितुं शक्तिस्तदपोहो न सिध्यति ॥९३२॥ यदि ह्यश्वादीनामेकः कश्चित् सर्वव्यक्तिसाधारणो धर्मोऽनुगामी स्यात् तदा ते सर्वे गवादिशब्दैरविशेषेणापोहयेरन्, नान्यथा; विशेषापरिज्ञानात् । साधारणधर्माभ्युपगमे चापोहकल्पनावैयर्थ्यम्; तत्-तस्मात्; अपोहो न सिध्यति ॥ ९३२॥
____ अपि च-अपोहः शब्दलिङ्गाभ्यामेव प्रतिपाद्यते' इति भवद्भिरिष्यते, तयोश्च शब्दलिङ्गयोर्वस्तुभूतसामान्यमन्तरेण प्रवृत्तिर्न युक्ता, ततश्च केनापोहः प्रतिपाद्यतामित्येतद्दर्शयति
न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्दलिङ्गयोः ।
ताभ्यां च न विनापोहो न चासाधारणेऽन्वयः ॥९३३॥ अन्वयविनिमुक्तेति, अन्वयमन्तरेणेत्यर्थः । ताभ्यामिति । शब्दलिङ्गाभ्यां विना नापोहः। अवगम्यत इति शेषः । स्वलक्षणेनैवान्वयं कृत्वा शब्दलिङ्गयोः प्रवृत्तिः करिष्यते इति चेद्? आह-न चासाधारणेऽन्वय इति। स्वलक्षणमसाधारणम्-अनन्यभाक्, [G.298] तत्कथं । "तेनान्वयो भवेत् । तदेवमपोहकल्पनायां शब्दलिङ्गयोः प्रवृत्तिरेव न प्राप्नोति ॥ ९३३॥
भवतु वा प्रवृत्तिः, तथाप्यनयोः प्रामाण्यमभ्युपगतं हीयत इति दर्शयति१. अपोहस्येत्यर्थः। २.सम्बन्धिन इत्यर्थः।
३. अपोहभेद इत्यर्थः।। ४.०सारूप्यमपोह०-पा०, गा०। ५. गवादीन.....त:-पा०, गा०। ६. पा०, गा० पुस्तकयो स्ति। ७. निरर्थकैवेति-पा०,गा०। ८. ०धर्माया०-पा०।
९.गम्यत-पा०, गा०॥ १०.स्वलक्षणेनेत्यर्थः।