________________
२५८
तत्त्वसंग्रहे अपोहश्चाप्यनिष्पन्नः साहचर्य व कथ्यताम्। प्रतिपाद्यार्थाव्यभिचारे सति शब्दलिङ्गयोः प्रामाण्यं स्यात्, प्रतिपाद्यश्चार्थोऽपोहस्त्वयेष्यते, स चाभावरूपत्वादनिष्पन्नो नि:स्वभावतः; ततश्च साहचर्यमव्यभिचारित्वं क्व कस्मिन्विषये कथ्यतां शब्दलिङ्गयोः। किं तेन कथितेनेति चेद् ? आह
___ तस्मिन्नदृश्यमाने च न तयोः स्यात् प्रमाणता ॥९३४॥
तस्मिन्निति साहचर्ये । तयोरिति शब्दलिङ्गयोः । अविसंवादलक्षणत्वात् प्रामाण्यस्येति भावः ॥ ९३४॥
अथापि स्याद्-विजातीयादर्शनमात्रेणैव शब्दलिङ्गे अगृहीतसाहचर्ये एतत् स्वमर्थं गमिष्यत इत्याह
न चादर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत्। ..'
सर्वत्रैव ह्यदृष्टत्वात् प्रत्ययो न विशिष्यते ॥९३५॥ मात्रग्रहणमन्वयदृष्टिव्यवच्छेदार्थम्। कस्मान भवेत् ? इत्याह- सर्वत्रैवेत्यादि। सर्वत्र-सजातीये, विजातीये स्वार्थे च। ततश्च 'अयं स्वार्थः', अयं परार्थः' इत्येवं प्रत्ययो ज्ञानं न विशिष्येत। स्वार्थमपि न गमयेत्, तत्राप्यदृष्टत्वात् परार्थवदिति यावत्।
क्वचित् प्रत्याय्य इति पाठः। तत्र प्रत्याय्योऽभिधेयोऽर्थो न विशिष्यते न भिद्यत इत्यर्थः । तदेवं शब्दलिङ्गयोः प्रवृत्तिप्रामाण्याभ्युपगमहानिप्रसङ्गानापोहः शब्दार्थो युक्तः ॥ ९३५॥
यदुक्तम्-"न चाप्रसिद्धसारूप्या०" (तत्त्व० ९३१) इत्यादि, तत्र परस्योत्तरमाशङ्कते
अथासत्यपि सारूप्ये स्यादपोहस्य कल्पना।
गवाश्वयोरयं कस्मादगोऽपोहो न कल्प्यते ॥९३६॥ यदि सारूप्यमन्तरेण शाबलेयादिष्वगोपोहस्य कल्पना स्यात्, तदा गवाश्वयोरपि कस्मान्न प्रकल्प्येत, अविशेषात्। "गवाश्वप्रभृतीनि च" (पा० सू० २.४.११)इत्यस्य लक्षणस्य विस्मृतत्वाद् विप्रेण गवाश्वयोरित्युक्तम् ॥ ९३६ ॥ [G.299] तमेवाविशेषं दर्शयति
शाबलेयाच्च भिन्नत्वं बाहुलेयाश्वयोः समम्।
सामान्यं नान्यदिष्टं चेत् क्वागोऽपोहः प्रवर्त्तताम् ॥९३७॥ क्वागोऽपोहः प्रवर्त्ततामिति। यथैव शाबलेयाद् वैलक्षण्यादश्वे न प्रवर्त्तते, तथा बाहुलेयस्यापि ततो वैलक्षण्यमस्तीति तत्रापि न प्रवर्तेत। एवं शाबलेयादिष्वपि योज्यम्; सर्वत्र वैलक्षण्याविशेषात् ॥ ९३७॥
___ अपि च-यथा स्वलक्षणादिषु समयासम्भवान्न शब्दार्थत्वं युक्तम्, तथापोहेऽपीति दर्शयन्नाह१. कमारिलो व्याकरणमपि न जानातीति कमलशीलस्तं विप्रशब्देनोपहसति।