________________
शब्दार्थपरीक्षा
२५९ इन्द्रियैर्नाप्यगोऽपोहः प्रथमं व्यवसीयते। स्वयं निश्चितार्थो हि समयकृत् समयं करोति, न चापोहः केनचिदिन्द्रियैर्व्यवसीयते। प्रथमम् व्यवहारकालात् पूर्वम्, संज्ञासंज्ञिसम्बन्धकाल इत्यर्थः । तस्यावस्तुत्वात्, इन्द्रियाणां च वस्तुविषयत्वादिति भावः । स्यादेतद्-अन्यव्यावृत्तस्वलक्षणमुपलभ्य शब्दः प्रयोक्ष्यते? इत्यत आह
नान्यत्र शब्दवृत्तिश्च किं दृष्ट्वा स प्रयुज्यताम् ॥९३८॥ अन्यापोहादन्यत्र स्वलक्षण इत्यर्थः ॥ ९३८॥ मा भूदिन्द्रियैरपोहस्य व्यवसाय:, अनुमानेन भविष्यतीति चेत् ? आह
पूर्वोक्तेन प्रबन्धेन नानुमाऽप्यत्र विद्यते। ___ सम्बन्धानुभवोऽप्यस्य तेन नैवोपपद्यते ॥९३१॥
तत्र पूर्वोक्तः प्रबन्धः-"न चान्वयविनिर्मुक्ता प्रवृत्तिः शब्दलिङ्गयोः" (तत्त्व० ९३३) इत्यादिः। सम्बन्धानुभवोऽपति। शब्देन सहेति शेषः। 'न केवलं पूर्वोक्ताश्ववैलक्षण्यादिर्नोपपद्यते' इत्यपिशब्देन दर्शयति। तेति तस्मात् । तदेवम् अकृतसमयत्वात्' इत्यस्य हेतोरनैकान्तिकत्वं प्रतिपादितम्; अकृतसमयत्वेऽप्यपोहे शब्दप्रवृत्त्यभ्युपगमात् ॥ ९३९ ॥ पुनरप्यपोहे सङ्केतासम्भवं प्रतिपादयन्नाह
अगोशब्दाभिधेयत्वं गम्यतां च कथं पुनः? इदं हि भवान् वक्तुमर्हति-कथमश्वादीनाम् अगोशब्दाभिधेयत्वम् गोशब्दानभिधेयत्वं भवद्भिरवगम्यत इति। बौद्ध आह
[G.300] न दृष्टो यत्र गोशब्दः सम्बन्धानुभवक्षणे ॥९४०॥ सम्बन्धानुभवक्षण इति । सङ्केतप्रतिपत्तिवेलायामिर्थः ॥ ९४०॥ एकस्मादित्यादिना परो दूषणमाह
एकस्मात् तर्हि गोपिण्डाद्यदन्यत् सर्वमेव तत्।
. भवेदपोह्यमित्येतन्न सामान्यस्य वाच्यता ॥९४१॥ यदि हि यदेव सङ्केतानुभववेलायामुपलब्धं ततोऽन्यत्र गोशब्दप्रवृत्तिर्नेष्यते, तदैकस्मात् सङ्केतेन विषयीकृताच्छाबलेयादिकाद् गोपिण्डात् सकाशाद् यदन्यद् बाहुलेयादि तदपि गोशब्देनापोह्यं भवेत् । ततश्च ‘सामान्य वाच्यम्' इत्येतन्न सिध्येत् ॥ ९४१ ।। इतश्चेतरेतराश्रयदोषप्रसङ्गादपोहे सङ्केतोऽशक्यक्रिय इति दर्शयन्नाह
सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः।
तत्र गौरव वक्तव्यो ना यः प्रतिषिध्यते ॥९४२॥ अगोव्यवच्छेदने गोप्रतिपत्तिः, स चगौर्गोनिषेधात्मा, ततश्चागौरित्यत्रोत्तरपदार्थो वक्तव्यः, यो न गौरगौरित्यत्र नञा प्रतिषिध्येत। न ह्यनितिस्वरूपस्य निषेधः शक्यते कर्तुम्।
अथापि स्यात्-किमत्र वक्तव्यमगोनिवृत्यात्माऽसौ गौः? इत्यत आह१. पूर्वोक्ताश्चवै०-पा०। २. तां-पा०: भवतां- गा० ।
३. नहि-पा०. गा०।