________________
२६०
तत्त्वसंग्रहे
स चेदगोनिवृत्त्यात्मा भवेदन्योऽन्यसंश्रयः। स इति गौः । तथा ह्यगोनिवृत्तिस्वभावत्वाद् गोरगोप्रतिपत्तिद्वारेणैव प्रतीतिः, अगोश्च गोप्रतिषेधात्मकत्वाद् गोप्रतिपत्तिद्वारिकैव प्रतीतिरिति स्फुटतरमवतरतीतरेतराश्रयत्वम्।
अथापि स्यात्-अगोशब्देन यो गोर्निषेध्यते स विधिरूप एव सिद्धोऽपोहार्थम्= अगोव्यवच्छेदलक्षणापोहसिद्ध्यर्थम्, तेनेतरेतराश्रयत्वं न भविष्यति? इत्यत आह
सिद्धश्चेद् गौरपोहार्थं वृथाऽपोहप्रकल्पनम् ॥९४३॥ यदयेवम्, सर्वस्य शब्दस्यापोहार्थ' इत्येवमपोहकल्पनं वृथा; विधिरूपस्य शब्दार्थस्य भावात्। तस्मान कश्चिद् विधिरूप: शब्दार्थः सिद्धोऽङ्गीकर्तव्यः, तदनङ्गीकरणे चेतरेतराश्रयदोषो दुर्निवारः ॥ ९४२-९४३॥ तदेवेतरेतराश्रयत्वमुपसंहरन्नाह
गव्यसिद्धे त्वगौास्ति तदभावे तु गौः कुतः! . [G.301] 'तदभावे त्विति। अगोरभावे। आचार्यदिङ्नागेन विशेष्यविशेषणभावसमर्थनार्थमुक्तम्-"नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानांनाहुः"( . ) इत्यादि, तदेतदयुक्तमिति दर्शयन्नाह
नाधाराधेयवृत्त्यादिसम्बन्धश्चाप्यभावयोः ॥९४४॥ यस्य हि येन सह कश्चिद् वास्तवः सम्बन्धः सिद्धो भवेत्, तत्तेन विशिष्टमिति युक्तं वक्तुम्। न च नीलोत्पलयोरनीलोत्पलव्यवच्छेदरूपत्वेनाभावरूपयोराधाराधेयादिसम्बन्धः सम्भवति; नीरूपत्वात्। आदिग्रहणेन संयोगसमवायैकार्थसमवायादिसम्बन्धग्रहणम्। न चासति वास्तवे सम्बन्धे तद्विशिष्टस्य प्रतिपत्तिर्युक्ता; अतिप्रसङ्गात् ॥ ९४४ ॥
__ अथापि स्यात्-नैवास्माकमनीलादिव्यावृत्त्या विशिष्टोऽनुत्पलादिव्यवच्छेदोऽभिमतः, यतोऽयं दोषः स्यात्; किं तर्हि अनीलानुत्पलाभ्यां व्यावृत्तं वस्त्वेव तथा व्यवस्थितम्। तदर्थान्तरानिवृत्त्या विशिष्टं शब्देनोच्यत इत्ययमर्थोऽत्राभिप्रेतः? इत्यत आह
नचासाधारणं वस्तु गम्यतेऽपोहवत्तया।
कथं वा परिकल्प्येत सम्बन्धो वस्त्ववस्तुनोः ॥९४५॥ स्वलक्षणस्यावाच्यत्वात् तत्पक्षभाविदोषप्रसङ्गाच्चेति भावः । गम्यतां नामासाधारणं वस्तु, तथापि तस्यान्यव्यावृत्त्या विशिष्टत्वं न सिध्यतीति दर्शयति-कथं वेत्यादि। अवस्तु अपोहः, असाधारणं तु वस्तु; न चावस्तुवस्तुनोः सम्बन्धो युक्तः; वस्तुद्वयाधारत्वात् तस्य ॥ ९४५॥ अपि च-भवतु नाम सम्बन्धः, तथापि विशेषणत्वमपोहस्य न युक्तमिति दर्शयति
स्वरूपसत्त्वमात्रेण न स्यात् किञ्चिद् विशेषणम्।
स्वबुद्धया रज्यते येन विशेष्यं तद्विशेषणम् ॥ ९४६॥ न हि सत्तामात्रेणोत्पलादीनां नीलादि विशेषणं भवति, किंतर्हि ? ज्ञातं सद् यत् स्वाकारानुरक्तया बुद्ध्या विशेष्यं रञ्जयति तद्विशेषणमुच्यते ॥ ९४६ ॥
न चापोहेऽयं प्रकारः सम्भवतीति दर्शयति१.०पोहोऽर्थ-पा०, गा०।
२-२.तदभावे इति गोरभावे-पा०, गा० ।