________________
२१०
तत्वसंग्रहे समयाभोगादिव्यवहितत्वम् साक्षादनुत्पत्तेः प्रत्यक्षत्वमेषामसिद्धम् । न चापि पारम्पर्येणोत्पद्यमानस्य प्रत्यक्षत्वं न्याय्यम्; अतिप्रसङ्गादिति भावः ॥ ७२६-७२८॥ - [G.241] इतश्च स्मार्त्तत्वात् तदन्यस्मृतिवत् प्रत्यक्षत्वमयुक्तं सदादिप्रत्ययस्येति दर्शयन्नाह
___ अजल्पाकारमेवादौ विज्ञानं तु प्रजायते। .
ततस्तु समयाभोगस्तस्मात् स्मार्तं ततोऽपि ते॥७२९॥ स्वलक्षणे सङ्केतस्याकरणाद् दृष्ट्वा च विकल्पनात् प्रथमतरं वस्तुस्वलक्षणविषयतयाऽभिलापसंसर्गविवेकि विज्ञानमक्षाश्रितमुपजायते। ततः पश्चात् तस्मिन्नेव परिदृष्टे वस्तुनि समयाभोगः तदनन्तरं यथासमयं परिदृष्टार्थविषयास्तदध्यवसायितया' सदादिप्रत्ययास्तमेवार्थ परिदृष्टमभिलपन्तः समुत्पद्यमानाः कथमिव स्मार्त्ततां नासादयेयुः ! ततोऽपीति । यथा परिदृष्टाध्यवसायात् । त इति सदादिप्रत्ययाः ॥ ७२९॥ कुतः पुनरयमुत्पत्तिक्रमो विज्ञानानामालक्षितः? इत्याह-:
अन्यत्रगतचित्तस्य वस्तुमात्रोपलम्भनम्। ..
सर्वोपाधिविवेकेन तत एव प्रवर्त्तते॥७३०॥ यतस्ते सदादिप्रत्यया अमुना क्रमेणोपजायन्ते, तत एवान्यत्र विषयान्तरे गतचित्तस्य= व्यासक्तमनसः पुरोऽवस्थितं वस्तु पश्यतः सम्मुखीभूतवस्तुसङ्केतमनस्काराद्यप्रवृत्तेः प्रथमतरं सर्वोपाधिविविक्तवस्तुमात्रदर्शनं प्रवर्तते । अन्यथा हि यदि सर्वमेव साभिजल्पं विज्ञानं स्यात्, तदा पुरोऽवस्थित वस्तु सर्वोपाधिशून्यमन्यत्रगतमनाः कथमीक्षेत ! न ह्येकस्मिन् काले युगपदभिलापद्वयं संवेद्यते । तदेवं साक्षादक्षगतावन्यव्यतिरेकानुविधायित्वमसिद्धम् ॥७३०॥ तत्र यदुक्तम्- "गवादि" (तत्त्व० ७१६) इत्यादि, तत्राह- .
हेतावाद्येऽपि वैफल्यं समयाभोगभाविता।
तेषामिष्टैव संसर्गी सोऽन्वयव्यतिरेक़वान्॥७३१॥ यदि सामान्येनानुरूपससर्गि निमित्तान्तरमात्रनिबन्धनत्वमेषां प्रसाध्यते तदा सिद्धिसाध्यता; यतो गवादिसङ्केताभोग एव गवादिप्रत्ययव्यपदेशानामनुरूपसम्बन्धी। तथा हितस्मिन्सति भवन्ति विजातीयमनस्कारे, असति' च न भवन्ति । अतः स एवान्वयव्यतिरेकवान् हेतुरेषां सिद्धः; तद्गतान्वयव्यतिरेकस्यैवानुविधानात्, अतो वैफल्यं हेतुप्रयोगप्रयासस्य ॥७३१ ॥
तस्य पक्षाबहिर्भावे साध्यशून्यं निदर्शनम्। . नैव तद्धेतवः साक्षाद् बाह्यवत्सांकुशादयः॥७३२॥ नाभिधानविकल्पानां वृत्तिरस्ति स्वलक्षणे।
सर्वं वाग्गोचरातीतमूर्तिर्येन स्वलक्षणम् ॥७३३॥ [G.242] अथैनं संकेतमनस्कारं पक्ष एवान्तर्भाव्य तद्व्यतिरिक्तनित्यैकानुगामिसामान्याख्यसंसर्गिनिबन्धनत्वमेषां साध्यते, तदा दृष्टान्तस्य साध्यविकलता, न ह्येवम्भूलेन क्वचिदन्वयः सिद्धः । ये चामी वत्साङ्कशादयः सवत्साद्यभिधानप्रज्ञानहेतुत्वेन वर्णिताः, तेऽपि तद्धेतुत्वेन १. तदव्यवसायितया-जै०. पाल।
२. परिदृष्टाव्यवसायात्- जै०, पा०। ३. जै०, पा० पुस्तकयो स्ति।
४. नैवं-पा०, गा०।