________________
२०९
सामान्य (जाति) परीक्षा प्रत्येकं सह वा शक्तिर्नानात्वेऽप्युपलभ्यते॥७२२॥ न तेषु विद्यते किञ्चित् सामान्यं तत्र शक्तिमत्। चिरक्षिप्रादिभेदेन रोगशान्त्युपलम्भतः॥७२३॥ सामान्येऽतिशयः कश्चिन्नहि क्षेत्रादिभेदतः । एकरूपतया नित्यं धात्र्यादेस्तु स विद्यते॥७२४॥ एवमत्यन्तभेदेऽपि केचिन्नियतशक्तितः।
तुल्यप्रत्यवमर्शादेहेतुत्वं यान्ति नापरे॥७२५॥ [G.240] यथा ह्यामलक्यादयः परस्परमत्यन्तविभिन्नमूर्तयोऽपि प्रत्येकं समुदिता वा नानाविधव्याधिव्यावर्त्तनसामर्थ्याध्यासिता भवन्त्यन्तरेणाप्यनुगामिनम्। न हि तत्र सामान्यमेव तथाविधामर्थक्रियां सम्पादयतीति युक्तं वक्तुम्; यतस्तेषु विविधार्थक्रियासम्पादनयोग्यं न सामान्यमस्ति। यदि स्यात्, तदा येयं क्वचित् कदाचित् कासाञ्चिद्धात्र्यादीनां चिरक्षिप्ररोगाद्युपशमनसामोपलब्धिः, सा न स्यात्; सामान्यस्यैकरूपत्वात्। न च क्षेत्रक्षीरावसेकादिसंस्कारविशेषवशादासादितातिशयं सामान्यमेवैतामर्थक्रियां विचित्रां सम्पादयतीति युक्तम्। तस्य नित्यतया परैरनाधेयविकारस्य क्षेत्रादिभेदतोऽपि नातिशयः कश्चिद्; एकरूपत्वात्। धात्र्यादीनां त्वनित्यानां साऽतिशयः क्षेत्रादिभेदतो भिद्यत इत्यतस्त एव रोगाद्युपशमसामोपेताः। ततश्च तद्वदेवान्येऽपि घटादयो भावाः स्वहेतुप्रत्ययेभ्यस्तथोत्पत्तेः प्रकृत्यैवैकाकारप्रत्यवमर्शादिहेतवो भविष्यन्तीत्यदोषः । तुल्यप्रत्यवमर्शादेरिति। आदिशब्देन सलिलसन्धारणाद्यर्थक्रियासामर्थ्यपरिग्रहः ॥ ७२२-७२५ ॥ ___ कथं पुनः सङ्केताभोगादिव्यवहितत्वमेषां सिध्यति? इत्याह
कार्यमानोपयोगित्वविवक्षायां च सच्छुतेः। समयः क्रियते येषु' यद्वान्यस्या यथारुचि॥७२६॥ वाहदोहादिरूपेण कार्यभेदोपयोगिनि। गवादिश्रुतिसंकेतः क्रियते व्यवहर्तृभिः ॥७२७॥ तत्संकेतमनस्कारात् सदादिप्रत्यया इमे।
जायमानास्तु लक्ष्यन्ते 'नाक्षाद् व्यापृत्यनन्तरम् ॥७२८॥ न ह्यगृहीतसमयानां सदादिप्रत्ययप्रसूतिः, अन्यथा सङ्केतकरणवैयर्थ्यं स्यात्। तस्माद् यस्मिन्नेकाकारपरामर्शव्यवस्थितार्थक्रियासामर्थ्यमात्रप्रतिपादनस्यैवाभेदं परामश्य सदिति श्रुति विनिवेशयन्ति समयकृत: यद्वाऽन्यस्याइति । वस्त्वित्यस्याः श्रुतेः । एवं गवादिविशेषश्रुतेरपि वाहादिसामर्थ्यविशेषजिज्ञासायां समयः क्रियत इति योज्यम्। ततश्च संकेतोत्तरकालं व्यवहारकाले गवादिषु दृष्टेष्वपि पूर्वकृतसङ्केताभोगः, ततस्तन्नामस्मरणम्, ततः पश्चात् सदादिप्रत्ययोदय इति स्फुटतरमालक्ष्यत एव । क्वचिदत्यभ्यासत आशुतरोत्पाददमीषां क्रमो नावधार्यते। मन्दाभ्यासास्तु स्फुटतरमवधारयन्त्येव तदित्युपसंहरति । तत् तस्मात् तदेवं १. तेष- पा०, गा०।
२-२. नाक्षव्यापत्यल-पा० गा०। ३. प्रतिपादितमेवाभेद-पा०, गा० । . ४. अत्र 'तस्मिन्सदादिप्रत्ययः' इत्यधिकं पाठमिच्छति गा० सम्पादकः ।