________________
२०८
तत्वसंग्रहे
विषयत्वे सति पिण्डादिस्वरूपाभिधानप्रज्ञानव्यतिरिक्ताभिधानज्ञानत्वात्, तेष्वेव गवादिषु - सवत्सा गौः, भाराक्रान्तो महिषः, सशल्यो वराहः, साङ्कुशो मातङ्गः - इत्याद्यभिधान· प्रज्ञानविशेषवत् । वैधर्म्येण पिण्डादिस्वरूपाभिधानप्रज्ञानविशेषाः । यानि च तानि निमित्तान्तराणि तानि गोत्वादीनीति सिद्धम् । तत्राभिधानम् = शब्दः, प्रज्ञानम् = प्रत्यय:, ज्ञानमित्यर्थः । अभिधानप्रज्ञानान्येव विशेषा इति विशेषणसमासः । समयः =सङ्केतः, आकृति:= संस्थानम्, पिण्डः = द्रव्यम्, आदिशब्देन रूपादिपरिग्रहः, एभ्यो व्यतिरिक्तं स्वरूपं येषाम् - स्वाभिधानप्रत्ययं प्रत्यनुरूपाणामुपाधित्वात् संसर्गिणां निमित्तान्तराणां तानि निबन्धनं येषामिति विग्रह: । अथ वा - समयादिव्यतिरिक्तानि च तानि सदादिप्रत्ययाभिधानं प्रति स्वरूपानुरूपसंसर्गीणि चेति विग्रहः कार्यः । शेषं पूर्ववत् । अवघोषणेति प्रतिज्ञा ।
शाविषाणादिप्रत्ययैर्व्यभिचारशङ्कया [G.239] तत्परिहारार्थं गवादिविषयत्वे सतीति विशेषणम् । पिण्डादिस्वरूपाभिधानप्रज्ञानव्यतिरिक्ते अभिधानप्रज्ञाने येषां तद्भावस्तत्त्वमिति विग्रहः। वैधर्म्येण पिण्डादिस्वरूपाभिधानप्रज्ञानविशेषा इति । तत्र हि पिण्डादिव्यतिरिक्तनिमित्तान्तरनिबन्धत्वाभावे हेतोरपि यथोक्तस्याभावात् ॥ ७१५-७१७ ॥
उद्दयोतकरस्त्वाह– “गवादिष्वनुवृत्तिप्रत्ययः पिण्डादिव्यतिरिक्तान्निमित्ताद् भवति; विशेषकत्वात्, नीलादिप्रत्ययवत् । तथा गोतोऽर्थान्तरं गोत्वम्; भिन्नप्रत्ययविषयत्वाद्, रूपस्पर्शादिवत्, तस्येति च व्यपदेशविषयत्वाद् यथा -- चैत्रस्याश्व इति चैत्राद् व्यतिरेकेण व्यपदिश्यमानः " इति ( ) । तदेतद्दर्शयति
गवादिष्वनुवृत्तं च विज्ञानं पिण्डतोऽन्यतः । विशेषकत्वान्नीलादिविज्ञानमिव जायते ॥ ७१८ ॥ गोतश्चार्थान्तरं गोत्वं भिन्नधीविषयत्वतः ।
रूपस्पर्शादिवत् तस्येत्युक्तेश्चैत्रतुरङ्गवत् ॥ ७१९॥ गवादिष्वित्यादि । सुबोधम् ॥ ७१८-७१९ ॥ असारमित्यादिना प्रतिविधत्ते
असारं तदिदं सार्यं प्रक्रियामात्रवर्णनम् ।
न तु तज्ज्ञापकं किञ्चित् प्रमाणमिह विद्यते ॥ ७२० ॥ अक्षव्यापारसद्भावान्न ह्यनन्तरभाविनः ।
सदादिप्रत्ययास्सिद्धाः संकेताभोगतस्तु ते ॥ ७२१ ॥
यदुक्तम्– “ अक्षव्यापारसद्भावात् सदादिप्रत्ययानामक्षाश्रितत्वम्" (तत्त्व० ७१३)
इति, तत्र यदि साक्षादक्षव्यापारान्तरभावित्वादिति हेत्वर्थोऽभिप्रेतः, तदा हेतुरसिद्धः ; सविकल्पकत्वेन सङ्केताभोगस्मरणादिव्यवहितत्वात् ॥ ७२०-७२१ ॥
न चैतच्छक्यं वक्तुम् - एकमनुगामिनमन्तरेण कथं परस्परव्यावृत्तात्मनो भावाः पारम्पर्येणाप्यभिन्नाकारप्रत्ययनिबन्धनं युज्यन्ते ? इत्याशङ्कयाह
धात्र्यभयादीनां नानारोगनिवर्तने ।
२. कार्य- पा०. गा।
यथा
१. ० श्चैव तुरङ्गवत् - पा०. गा० ।