________________
सामान्य (जाति) परीक्षा
२०७ इत्युभयोरुपादानम् । तेन परस्परमत्यन्तव्यावृत्तबुद्धिहेतुत्वात् स्वाश्रयमन्यतो विशेषयन्तीति विशेषा उच्यन्ते ॥ ७११॥ कुतः पुनरमी सिद्धाः? इत्याह
यद्बलात् परमाण्वादौ जायन्ते योगिनां धियः।
विलक्षणोऽयमेतस्मादिति प्रत्येकमाश्रिताः॥७१२॥ यथा ह्यस्मदादीनां गवादिष्वाकृतिगुणक्रियावयवसंयोगनिमित्तोऽश्वादिबुद्धिव्यावृतः प्रत्ययो दृष्टः, तद्यथा-गौः, शुक्लः शीघ्रगतिः पीनककुदो महाघण्ट इति यथाक्रमम्, तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासम्भवाद् यद्बलात् प्रत्येकं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च 'स एवायम्' इति प्रत्यभिज्ञानं यतो भवति, ते योगिनां विशेषप्रत्ययोन्नीतसत्त्वा अन्त्या विशेषाः सिद्धाः । ते च यथास्वं प्रत्येकमाश्रयमाश्रिताः योगिनां प्रत्यक्षत एव सिद्धाः ॥ ७१२॥ . अथ जातयः कथं सिद्धाः? इत्याहः- .
प्रत्यक्षतः प्रसिद्धास्तु.सत्त्वगोत्वादिजातयः। • अक्षव्यापारसद्भावे सदादिप्रत्ययोदयात्॥७१३॥ यद्गतान्वयव्यतिरेकानुविधायि यद्भवति तत्ततो भवतीति व्यवस्थाप्यते । द्रव्यादिषु च सदादिप्रत्ययप्रसूतिरक्षगतान्वयव्यतिरेकावनुविदधती किमितीन्द्रियजन्यताव्यपदेशं नाश्रुवीत, तदन्येन्द्रियज्ञानवत्, अन्यथाऽतिप्रसङ्गः स्यात् !॥ ७१३ ।।
अनुमानतोऽपि सत्त्वमासां प्रतिपादयन्नाह- . • अनुमानबलेनापि सत्त्वमासां प्रतीयते।
विशेषप्रत्ययो येन निमित्तान्तरभाविकः॥७१४॥ विशेषप्रत्यय इति द्रव्यादिवस्तुविलक्षणाकारः प्रत्ययः । निमित्तान्तरभाविक:= [G.238] निमित्तान्तराद् भाव उत्पादः सोऽस्यास्तीति कृत्वा । प्रयोगः- यद्वस्त्वाकारविलक्षणो यः स तद्व्यतिरिक्तनिमित्तान्तरभावी, यथा-वस्त्रचर्मकम्बलेषु रक्तादिप्रत्ययः । तथा चायं द्रव्यादिषु सदादिप्रत्यय इति स्वभावहेतुं मन्यते परः ॥ ७१४॥ एनमेव प्रमाणार्थ गवादीत्यादिना भाविविक्तादिरिचितप्रमाणोपन्यासेन दर्शयति
गवादिशब्दप्रज्ञानविशेषा गोगजादिषु। समयाकृतिपिण्डादिव्यतिरिक्तार्थहेतवः ॥७१५॥ गवादिविषयत्वे हि सति तच्छब्दबुद्धितः।। अन्यत्वात् तद्यथैष्वेव सवत्सांकुशधीध्वनी॥७१६ ॥ शशशृङ्गादिविज्ञानैर्व्यभिचाराद् विशेषणम्।
तत्स्वरूपाभिधानं च वैधर्येण निदर्शनम्॥७१७॥ तत्र भाविविक्तः प्राह-गवाश्वमहिषवराहमातङ्गादिषु गवाद्यभिधानप्रज्ञानविशेषाः समयाकृतिपिण्डादिव्यतिरिक्तस्वरूपानुरूपसंसर्गिनिमित्तान्तरनिबन्धना इत्यवघोषणा; गवादि१. तत्र-पा०, गा०।
२. असम्भावत्- जै०।