________________
१३. सामान्य (जाति) परीक्षा
[G.236] द्रव्यादिष्वित्यादिना सामान्यविशेषदूषणमारभते
द्रव्यादिषु निषिद्धेषु जातयोऽपि निराकृताः ।
पदार्थत्रवृत्ता हि सर्वास्ताः परिकल्पिताः ॥ ७०७ ॥
जातयइति सामान्यानि । ताश्च द्रव्यगुणकर्मात्मकपदार्थत्रयाश्रितत्वात् तन्निराकरणादेवापास्ताः । न ह्याश्रयमन्तरेणाश्रितानां क्वचिदवस्थितिरस्ति; अनाश्रितत्वप्रसङ्गात् ! जातिग्रहणमुपलक्षणम्, विशेषा अप्यन्त्यद्रव्यवृत्तित्त्रादाश्रिता एवेष्टाः, अंतस्तेऽप्याश्रयनिराकरणा
देवापास्ताः ॥ ७०७ ॥
तथापि पुनर्विशेषेण दूषणं वक्तुकामोऽनिर्ज्ञातस्वरूपस्य 'अशक्यदूषणत्वात् सामान्यविशेषयोस्तावत् स्वरूपं दर्शयन्नाह
तत्रेयं द्विविधा जातिः सामान्यमेव सत्ताख्यं द्रव्यत्वादि तु सामान्यं स्वाश्रयेष्वनुवृत्तस्य विजातिभ्यश्च सर्वेभ्यः स्वाश्रयस्य विशेषणात् ।
व्यावृत्तिबुद्धिहेतुत्वं तेषामेव ततः स्थितम् ॥ ७१० ॥
तत्र सामान्यं द्विविधम्-परमपरं च । परं सत्ताख्यम् । तच्च समस्तेषु त्रिषु द्रव्यगुणकर्मस्वनुवृत्तिप्रत्ययस्यैव कारणत्वात् सामान्यमेव, न. विशेषः । अपरं तु 'द्रव्यत्वगुणत्वकर्मत्वादिलक्षणम्। तच्च स्वाश्रयेषु द्रव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् ' सामान्यम्' इत्युच्यते, स्वाश्रयस्य च विजातीयेभ्यो व्यावृत्तिप्रत्ययहेतुतया विशेषणात् सामान्यमपि सद् 'विशेष: ' इत्यभिधीयते । तथा हि- गुणादिषु 'अद्रव्यमगुणः' इत्यादिका. येयं व्यावृत्तबुद्धिरुदयमासादयति, तां प्रति हेतुत्वमेषामेव गुरुत्वद्रव्यत्वादीनां व्यवस्थितम्, नान्यस्य न ह्यद्रव्यत्वादिकमपरमस्ति । अपेक्षाभेदाच्चैकस्य सामान्यविशेषभावो न विरुध्यत एवेति भावः ॥ ७०८-७१०॥
परेषां विशेषाणां लक्षणमाह
परैरभ्युपगम्यते । समस्तेष्वनुवृत्तितः ॥ ७०८ ॥ सद्विशेषोऽभिधीयते ।
चेतसो हेतुभावतः ॥ ७०९ ॥
विशेषा एव केचित्तु व्यावृत्तेरेव हेतवः ।
नित्यद्रव्यस्थिता येऽन्त्या विशेषा इति वर्णिताः ॥ ७११ ॥
केचिद्विशेषा एवेष्यन्ते, न सामान्यानि । व्यावृत्तेरेव = व्यावृत्तिप्रत्ययस्यैव [G.237] हेतुत्वादित्यर्थः । के पुनस्ते ? इत्याह - नित्येत्यादि । तथा चोक्तम् — "नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः " (वै० द० भा० १.१.४) इति । नित्यद्रव्यवृत्तय इति परमाण्वाकाशकाल - दिगात्ममनःसु वृत्तेः। परमाणूनां जगद्विनाशारम्भकोटिभूतत्वात्, मुक्तात्मनां मुक्तमनसां च संसारपर्यन्तरूप त्वादन्तत्वम्, अतस्तेषु भवा अन्त्या इत्युच्यन्ते; तेषु स्फुटतरमालक्ष्यमाणत्वात् । वृत्तिस्तु पुनरेषां सर्वस्मिन्नेव परमाण्वादौ नित्ये द्रव्ये । अत एव नित्यद्रव्यवृत्तयः, अन्त्याः - २. द्रव्यत्वकर्मत्वादि- पार, गा० ।
१. शक्य- जै० ।