________________
कर्मपदार्थपरीक्षा
२०५ [G.235] यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्प्रेक्षावतामसद्ववहारमवतरति, यथा-क्वचित् प्रदेशे पटोऽनुपलभ्यमानः । नोपलभ्यते च रूपादिवस्तुव्यतिरेकेण कर्मेति स्वभावानुपलब्धिः । न हि रूपादेस्तथा देशान्तरावष्टम्भेनोत्पद्यमानस्य व्यतिरेकेण क्वचिदिन्द्रियज्ञाने प्रतिभासमानमालक्ष्यते कर्म । या चेयम्- 'उत्क्षेपणम्', 'अवक्षेपणम्' इति जल्पानुषङ्गिणी धीरुपजायते, सा साभिजल्पत्वान्न प्रत्यक्षम्। न चाप्येषा कर्मपदार्थानुभवभाविनी युक्ता; रूपादेरेव तथातथोत्पद्यमानस्य दर्शनात् । यथासङ्केतं तेष्वेवाध्यवसायेन वृत्तेः । एतच्चानन्तरमेव प्रतिपादितम्"नित्यानित्ययोर्गत्याद्यभावात्" (तत्त्व० ६९७-७००) इति। अतोऽसिद्धमेतद्यदुक्तम्प्रत्यक्षत एव कर्म सिद्धमिति ॥ ७०४॥ यथोक्तमेवार्थमुपसंहरन्नाह
अस्थिरे वा स्थिरे वैवं गत्यादीनामसम्भवः।
प्राक्तनापरदेशाभ्यां विभागप्राप्त्ययोगतः॥७०५॥ एवमिति अनन्तरोक्ताभ्यां प्रत्यक्षानुमानाभ्यां निराकृतत्वात्। विभागप्राप्त्ययोगतइति। प्राक्तनेन विभागायोगात्, अपरदेशेन प्राप्त्ययोगादिति यथाक्रम सम्बन्धः ॥ ७०५ ॥ यद्येवम्, कथं तर्हि गतिव्यवहारो लोके भवति? इत्याह
देशान्तरोपलब्धेस्तु नैरन्तर्येण जन्मनः।
समानापरवस्तूनां गतिभ्रान्तिः प्रदीपवत्॥७०६॥ समानापरवस्तूनामिति । समानानि तान्यपराणि चेति समस्य, तानि च वस्तूनि चेति विग्रहः कार्यः । तेषां समानापरवस्तूनां यनरन्तर्येण-स्वोपादानकारणदेशपरिहारेण, जन्म सद्भावः, तस्य जन्मन उपलब्धेः कारणात् सं एवायं गच्छंतीति भ्रान्तिर्भवति । यथा प्रदीपस्य केनचिन्नीयमानस्य. 'देशान्तरं गच्छति' इति बुद्धिहेतुत्वं भवति। न हि प्रदीपः स एव देशान्तरमाक्रामति; तस्य षट्क्षणस्थायित्वेनाभिमतत्वात्। भावस्वभाव एव हि पूर्वापरकोटिशून्यो जन्मेत्यभिधीयते । तेन तस्योपलब्धियुज्यत एव। अथ वा-जन्मनइति पञ्चम्यन्तमेतत् । नैरन्तर्येणोत्पादात् समानापरवस्तूनां देशान्तरोपलब्धेरिति सम्बन्धः ॥७०६॥
इति कर्मपदार्थपरीक्षा॥
२. कस्मिंश्चित्-पा०, गा०।
३. पा० गा० पुस्तकयोनास्ति।