SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २०४ तत्वसंग्रहे स्यादेतद्-यदि नामाविशिष्टमक्षणिकं वस्तु, तथापि प्रकृत्यैव तस्य गन्त्रादिरूपत्वात् क्रियावत्त्वं भविष्यतीत्यतोऽनैकान्तिकता हेतोः? इत्याशङ्कयाह यदि गन्त्रादिरूपं हि प्रकृत्या गमनादयः। सदा स्युः क्षणमप्येवं नावतिष्ठेत निश्चलम्॥६९८॥ यस्माद् गत्याद्यसत्त्वेऽपि प्राप्नुवन्त्यस्य ते ध्रुवम्। अत्यक्तपूर्वरूपत्वाद् गत्याधुदयकालवत् ॥६९९॥ यदि ह्यमी देवदत्तादयोऽक्षणिकत्वेन' नाभिमता: प्रकृत्या गमनोत्क्षेपणादियोगिनः, तदा [G.234] न कदाचिदपि निश्चलमवतिष्ठेरन्; सर्वदा गन्त्रादिरूपत्वात् । ततश्चास्य देवदत्तादेर्गत्यादिमतो गत्याद्यसत्त्वेऽपि-निश्चलावस्थायामपि, ते-गमनादयः, प्राप्नुवन्ति; गत्याद्युत्पत्तिकाल इवात्यक्तपूर्वरूपत्वात् ॥ ६९८-६९९॥ अथागन्त्रादिरूपं तत्प्रकृत्याऽगमनादयः। . . सदा स्युः क्षणमप्येकं नैव प्रस्पन्दवद् भवेत्॥७००॥ यस्माद् गत्यादिभावेऽपि निश्चलात्मकमेव तत्। . अत्यक्तपूर्वरूपत्वात् निश्चलात्मककालवत् ॥७०१॥ अथैतद्दोषभयादगन्त्रादिरूपत्वमस्याङ्गीक्रियेत, तथा सत्यगमनादयः सर्वदा स्युः; एकरूपत्वाद, आकाशवत्। आदिशब्दादुत्क्षेपणादिपरिग्रहः । ततश्च गत्यादिभावेऽपि तस्य निश्चलत्वमेव प्राप्नोति; अपरित्यक्तागत्यादिरूपत्वाद्, यथा निश्चलावस्थायाम्। प्रस्पन्दः= कर्म सोऽस्यास्तीति प्रस्पन्दवत्। निश्चलात्मककालवदिति सप्तम्यन्ताद्वतिः ॥ ७००-७०१ ॥ अथापि स्यात्-नैवाऽस्यैकरूपता, किं तर्हि ? गन्त्रगन्तृरूपतयोभयरूपत्वाद्, अतो यथोक्तदोषप्रसङ्गः, हेतोश्चासिद्धतेत्याशङ्कयाह यदि तु स्यादगन्ताऽयमेकदा चान्यथा पुनः। . परस्परविभिन्नात्मसङ्गतेभिन्नता भवेत्॥७०२॥ एकदा चेत चकारो विभिन्नक्रमः 'पुनः' इत्यस्यानन्तरं द्रष्टव्यः । पुनश्च, अन्यथेत्यर्थः । एवं हि गन्तृत्वागन्तृत्वादिविरुद्धधर्माध्यासादेकत्वहानिप्रसङ्गः॥७०२ ॥ अत एव तस्य क्षणिकत्वं सिद्धमिति दर्शयन्नाह अत्यन्तभिन्नावात्मानौ ताविति व्यवसीयते। विरुद्धधर्मवृत्तित्वाच्चलनिश्चलवस्तुवत् ॥७०३॥ ताविति चलाचलावस्थाभाविनौ। चलनिश्चलवस्तुवदिति। लतापर्वतादिवदित्यर्थः ॥ ७०३॥ एवं तावदनुमानबाधां प्रतिज्ञायाः प्रतिपाद्य प्रत्यक्षबाधामपि प्रतिपादयन्नाह दृश्यत्वाभिमतं कर्म न वस्तुव्यतिरेकि च। दृश्यतेऽतोऽपि नैवास्य सत्ता युक्तत्यनुपातिनी॥७०४॥ १. तत्-पा०, गा०। २-२. देवदत्तादयः क्षणिकत्वेनाभिमता:-पा०, गा०), ३. अव्यक्त०- जै०। ४. गन्त्रादयगद्यन्त्र०-०। ५. कदा-जै०। ६. दृश्यते सोऽपि-पा०, गा० ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy