________________
कर्मपदार्थपरीक्षा
२०३ इष्टाशुतरनाशेषु दीपादिष्वपि वस्तुषु ॥६९२॥ इष्ट आशुतरो विनाशो येषां ते तथा। प्रदीपादेरपि हि शीघ्रतरकालविनाशितयाऽभीष्टस्यापि जन्मोत्तरकालभाविन्येव क्रिया; षट्क्षणस्थायित्वेनास्याक्षणिकत्वात् ।। ६९२ ॥ कथम्? इत्याह
तथा हि कारणाश्लेषः, सामान्यस्याभिव्जञ्जनम्। स्वावयवे ततः कर्म, विभागस्तदनन्तरम् ॥६९३॥ संयोगस्य विनाशश्च, ततो द्रव्यस्य संक्षयः।
षटक्षणस्थायितैवेष्टा दीपादावपि वस्तुनि ॥६९४॥ तथा हि-स्वकारणसम्बन्धकालस्तावत् प्रथमं भवति, ततः पश्चात् स्वसामान्याभिव्यक्तिकालः, ततोऽवयवकर्मकालः, तदनन्तरमवयवविभागकालः, ततः स्वारम्भकावयवसंयोगविनाशः, ततो द्रव्यविनाश:-इति षट्क्षणस्थायितैव दीपादेरपि वस्तुनोऽभीष्टा । अतः क्षणिकस्य कस्यचिद् गतिमतः पदार्थस्याभावात् सर्वेषामेव क्रियावतां जन्मोत्तरकालभाविन्येव क्रिया। नाप्यसिद्धता हेतोः; अन्यस्य क्षणिकत्वायोगात् ॥ ६९३-६९४ ॥ [G.233] अथापि स्याद्-यदि नाम क्षणिकता भावानामस्माभिरिष्यते; तथाप्यमीषां जन्मकालभाविन्येव क्रिया कस्मान्न भवति? इत्याह
पश्चिमाग्रिमदेशाभ्यां विश्लेषाऽऽश्लेषसम्भवे। गन्ताऽपरो वा. सर्वश्च कर्माधारः प्रकल्पितः ॥६९५॥
यो जनः क्षणमध्यास्ते नैव जातु चलात्मकः। - तस्याण्वन्तरमात्रेऽपि देशसंक्रान्त्यसम्भवः ॥६९६॥ यस्य हि पाश्चात्त्यदेशविश्लेषः सम्भवति, पुरोवर्तिना देशेन चाऽऽश्लेषः,स गन्ता भवति, अपरो वा प्रसारणाद्याधारः; न त्वन्यः, आकाशादि। न चैकक्षणमात्रभाविन इयान् परिलम्बोऽस्ति, येन पूर्वदेशपरिहारपूर्वकमपरदेशमाक्रामेत् । सत्ताकाल एवास्तमयवशीकृतत्वादपर्याप्तो देशान्तरमाक्रमितुम्। तस्माजन्मकालभाविन्यपि क्रिया न युक्ता । नापि पूर्वोत्तरयोः कोट्योः; तदानीं तस्यानुपाख्यत्वात् । अतो यः क्षणमपि नास्ते तस्याऽऽस्तां तावद् विदूरतरदेशान्तरावक्रमणसम्भवः', अपि तु परमाणुमात्रप्रदेशसंक्रमणमपि नास्तीति कुतः क्षणिकस्य क्रिया!॥ ६९५-६९६॥ नाप्यक्षणिकस्येति दर्शयति
स्थैर्ये तु वस्तुनः सर्वे दुर्घटा गमनादयः।
सुतरामेव सर्वासु दशास्वस्याविशेषतः ॥६९७॥ एकरूपं हि सदा वस्त्वक्षणिकमुच्यते, तस्य सुतरामेव क्रियासमावेशो न सम्भवति; आकाशवत् सर्वदा निर्विशिष्टत्वात्। प्रयोगः-यत् सर्वदा निर्विशिष्टं न तस्य क्रिया सम्भवति, यथा-आकाशस्य। निर्विशिष्टं चाक्षणिकाभिमतं सर्वदा वस्त्विति व्यापकविरुद्धोपलब्धिः ॥६९७॥
१-१.०क्रमणा०-गा०/