________________
१२. कर्मपदार्थपरीक्षा कर्मपदार्थदूषणार्थमाह
क्षणक्षयिषु भावेषु कर्मोत्क्षेपाद्यसम्भवि।
जातदेशे च्युतेरेव तदन्यप्राप्त्यसम्भवात् ॥६९१॥ "उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि" (वै० द० १.१.६) इति सूत्रम्। तत्रोत्क्षेपणमूर्ध्वाध:प्रदेशाभ्यां संयोगविभागकारणं यत्कर्मोत्पद्यते। यथाशरीरावयवे तत्सम्बद्धे वा मूर्तिमति द्रव्ये 'लोष्टादावूर्ध्वतिर्यग्भागोपाधिभिराकाशप्रदेशाद्यैः संयोगकारणमधोदिग्भागावच्छिन्नैश्च विभागकारणं प्रयत्नादिवशाद्यत् कर्मोपजायते तदुत्क्षेपणमुच्यते । एतद्विपरीतं संयोगविभागकारणं कर्मावक्षेपणम्। ऋजुद्रव्यस्य कुटिलत्वहेतुरांकुञ्चनम्। यथोक्तम्-"ऋजुनो बाह्वादिद्रव्यस्य येऽग्रावयवा अङ्गुल्यादयस्तेषां 'स्वसंयोगिभिराकाशाहीविभागे सति मूलप्रदेशैश्चाशांदिभिः संयोगे सति येन कर्मणाऽवयवी बाह्वादिलक्षणः कुटिल: समुत्पद्यते तदाकुञ्चनम्" (वै० द० भा० १.१.६) इति । एतद्विपर्ययेण तु संयोगविभागोत्पत्तौ येन कर्मणाऽवयवी ऋजुः सम्पद्यते तत्प्रसारणम् । यदनियतदिक्प्रदेशैर्घटादिभिः संयोगविभागकारणं तद् गमनम्। उत्क्षेपणादिकं चतुःप्रकारं कर्म नियतदिग्देशैराकाशादिभिः संयोगविभागकारणम्। गमनं तु-अनियतदिग्भिः सर्वतोदिक्कैः प्रदेशैः संयोगविभागौ करोति। अंत एव पञ्चैव कर्माणि सम्भवन्ति; भ्रमणस्यन्दनरेचनादीनां गमन एवान्तर्भावात्।
एतच्च पञ्चविधमपि कर्म मूर्तिमद्रव्यवृत्तिसंयोगविभागकार्योन्नीतसत्त्वतया सिद्धम्। सर्वस्यैव संयोगविभागविशेषः [G.232] साधारणं कार्यम्, अतः कार्यतः सिद्धिरस्य । तथा प्रत्यक्षतोऽपि। यथोक्तम्-"सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणि" (वै० द० ४.१.१२) इति । तदेषा संक्षेपात् परप्रक्रियोक्ता।
तदत्र संयोगविभागयोः पूर्वं निषिद्धत्वात् तत् कार्यमसिद्धम्। अथ नैरन्तर्येणोत्पादादिमात्रलक्षणौ संयोगविभागौ तत्कार्यतया हेतुत्वेनोच्येत? एवमप्यनैकान्तिकता हेतोः; तथाविधेन कर्मणा तयोः क्वचिदप्यन्वयासिद्धेः । साध्यविपर्ययेण च हेतोफ्तेविरुद्धताऽपि। कारणमात्रास्तित्वे च साध्ये सिद्धसाध्यता; वाय्वादीनां तथाविधसंयोगविभागकारणत्वेनाभीष्टत्वात्। विशेषे च साध्ये प्रतिज्ञाया अप्यनुमानबाधा। तथा हि-क्रियासमावेशो भवन् पदार्थस्य ? क्षणिकस्य वा ? न तावत् क्षणिकस्य, तस्य जन्मदेश एव च्युतेः नाशाद् देशान्तरप्राप्त्यसम्भवात्। प्रयोगः-यो यत्र देशे च्यवते, न स तदुत्तरकालं तदन्यदेशमाप्नोति, यथाप्रदीपादिः। जन्मदेश एव च्यवन्ते य सर्वे भावा विवक्षिता इति व्यापकविरुद्धोपलब्धिः ॥ ६९१॥
नानैकान्तिकता हेतोरिति दर्शयन्नाह
- जन्मातिरिक्तकालं हि क्रियाकालं परे जगुः। १. ०वूर्ध्वदिग्भागो०- पा०, गा०। २. स्वयं संयोगाद्धिराकाशा०-जै०। ३. पा०, गा० पुस्तकयो स्ति। ४. 'अक्षणिकस्य वा'-इत्यधिकं पाठं स्वीचिकीर्षति गा सम्पादकः।