________________
उतार
गुणपदार्थपरीक्षा
२०१ पूर्वपूर्वप्रभावाच्च प्रबन्धेनानुवर्त्तनम् ॥६८७॥ स्वहेतोरेव हि निष्पद्यमाना एकक्षणस्थायिनः सिध्यन्ति। तथा हि
आत्मप्रतिलम्भलक्षणैवामीषां स्थितिरुच्यते, न तु प्रतिलब्धात्मसत्ताकानामुत्तरकालमात्मरूपसन्धारणलक्षणा; स्वयं चलात्मन उत्तरकालमवस्थानाभावात्। अस्थाने वा कदाचिदप्यनिवृत्तिप्रसङ्गः पूर्ववत्; पश्चादप्यविशिष्टत्वात्, अतत्स्वभावप्रसङ्गाच्च । पूर्वपूर्वकारणसामर्थ्यकृतश्चोत्तरोत्तरकार्यप्रसव इति प्रबन्धेऽपि न संस्कारस्य सामर्थ्य सिध्यति ॥ ६८७॥ __ अक्षणिकस्य तर्हि स्थापकोऽसौ भवतु? इत्याह
नान्यथोदयवानेष कस्यासौ स्थापकस्ततः । यो ह्यक्षणिकस्तस्यान्यथात्वासम्भवात् स्वत एव स्थितिरिति किं कुर्वाणस्तस्यासौ स्थापको भवतीत्युक्तमेतत्। अथापि स्यात्-मा भूदसौ स्थापकः, किन्तु क्षणस्यैवोत्पादको भवति? इत्याह
न चास्य दृष्ट हेतुस्त्वं संस्कारोऽन्योऽपि वा भवेत् ॥६८८॥
उत्पन्नस्यैव चेष्टोऽयं वस्त्रादेः स्थापको गुणः। प्रमाणाधीना हि प्रमेयस्य तत्त्वव्यवस्थितिः, न चास्य प्रसिद्धकारणव्यतिरेकेण वस्त्रादिषु प्रत्यक्षानुपलम्भाभ्यां चक्षुरादिवद्वा कार्यव्यतिरेकतो दृष्टम् निश्चितं हेतुत्वम्, येन तद्व्यवहारः स्यात् । अथादृष्टसामर्थ्यस्यापि हेतुत्वं कल्प्यते, तदा संस्कारः, अन्योऽपि वा-शुकबकादिरुत्पतेर्हेतुर्भवेत्। कल्पनीय इति शेषः । न ह्यदृष्टशक्तित्वेन कश्चिद्विशेषोऽस्ति; येनैकस्मिन्नैव संस्कारात्मन्यपरिनिश्चितसामर्थ्य कल्पनापरितोषो भवतां स्यात्। न चाप्ययमुत्पादहेतुरिष्टो भवद्भिः, अंपि तूत्पन्नस्य सतो वस्त्रादेरुत्तरकालंस्थापको गुण इष्यते । तत्र चाकिञ्चित्करत्वमस्येति पूर्वमुपवर्णितम् । अभ्युपगम्य तूंत्पत्तिहेतुत्वं दूषणमिदमभिहितम्; कदाचित् कश्चित् स्वसमयसीमानमप्यतिपत्यैवं कल्पयेदिति भावः।
.. गुणसंस्कारनामैवं सर्वथापि न सम्भवी ॥६८९॥
गुणसंस्कारनामेत्यादिना 'सर्वमुपसंहरति ॥ ६८८-६८९ ॥ [G.231] धर्माधर्मलक्षणगुणदूषणमाह
.. मनोयोगात्मनां पूर्व विस्तरेण निषेधनात् ।
. परोक्तलक्षणोपेतं . नादृष्टमुपपद्यते ॥६९०॥
कर्तृफलदाय्यात्मगुण आत्ममन:संयोगजः स्वकार्यविरोध्यदृष्टम्। तच्च द्विविधम्, धर्माधर्मभेदात् । तत्र धर्मः-कर्तुः प्रियहितमोक्षहेतुः । अधर्मस्तु-अप्रियाहितप्रत्यवायहेतुरिति परोक्तादृष्टलक्षणम् । तदेतदात्मनो मनसस्तद्योगस्य च तत्कारणत्वेनाभिमतस्य पूर्व निषिद्धत्वात् कारणाभावादेवासदिति सिद्धम्। शब्दस्त्वाकाशगुणतयाऽभीष्टः, स प्रागेव निरस्त:"अक्रमाद्यापतितः" (तत्त्व० ६२७) इत्यादिनेति, न पुनरस्य दूषणमुच्यते ॥ ६९० ॥
इति गुणपदार्थपरीक्षा।
१. पा०, गा० पुस्तकयो स्ति।
२. पूर्व-पा०, गा०।
३. निबन्धनात्-पा०, गा०।