________________
२००
तत्वसंग्रहे अथापि स्याद्-अर्वागेकान्तबलीयस्त्वाद्वेगस्य विरोधिनमपि वायुसंयोगं प्रतिविध्यास वेगो नयति देशान्तरमिषुमिति? यद्येवम्, परस्मात् केन तस्याबलीयस्त्वं येन सुदूरमपि देश तं न नयेत्। दृश्यते हि सर्वत्राविशिष्टवायुसंयोगवत्याकाशतले प्रसर्पतोऽपि शरस्यान्तराले पतनम्। न च वेगस्य पश्चादन्यत्वं [G.229] शक्यं वक्तुम्, अन्यथोत्पत्तिकारणाभावात् सर्वत्रैव हि तत्समवायिकारणमिष्वादि निर्विशिष्टमेव । न च कर्माख्यं कारणं पश्चाद् विशिष्यत इति युक्तमभिधातुम्; तस्यापि तुल्यपर्यनुयोगत्वात् । अन्यत्वेऽपि वा पश्चाद्वेगस्य पूर्वकस्य विनाशकारणाभावात् तादवस्थ्यमेवेत्यपात एव स्याच्छरस्य। न च वायुसंयोगस्तस्य विनाशकारणम्; अर्वागेव पतनप्रसङ्गादित्युक्तमेतत् । सर्वत्र वायोरविशेषेण तत्संयोगस्याप्यविशिष्टत्वादिति यत्किञ्चिदेतत् ॥ ६८३-६८४॥
भावनाख्यस्य दूषणमाह२. भावनाख्यस्तु संस्कारश्चेतसो वासनात्मकः।
युक्तो नात्मगुणश्चैष' युज्यते तन्निराकृतेः ॥६८५॥ . यदि हि स्मृत्यादिकार्यतः सामान्येन भवनामात्रं साध्यते, तदा सिद्धसाध्यता। तथा हि- पूर्वानुभवाहितसामर्थ्यलक्षणा चेतसः स्वात्मभूता भावना स्मृत्यादिहेतुरिष्यत एव। यस्या वासनेति प्रसिद्धिः । अथात्मगुणस्वभावा भावना साधयितुमिष्टा, तदा कचिदपि तथाविधयारे सह स्मृत्यादीनामन्वयासिद्धेरनैकान्तिकता हेतोः। प्रतिज्ञायाश्चानुमानबाधा । आत्मनस्तदाधारस्य पूर्व निराकृतत्वेनासत्त्वात्। तस्या अप्यसत्त्वसिद्धिः । प्रयोग:-ये यदाश्रितास्ते तस्याभावे सति नावस्थितिमश्नुवते, यथा-चित्रं कुड्याद्यभावे। आश्रितश्चात्मानं संस्कार: परमतेनेति व्यापकविरुद्धोपलब्धः। न चेष्टासिद्धिः; तस्यात्मनः पूर्वं निराकृतत्वात् । तस्माच्चेतसो वासनात्मक एव युक्तः संस्कारः, नात्मगुण इति प्रमाणफलमेतत्। 'कस्य प्रमाणसिद्धत्वाद्, अपरस्य विपर्ययादिति भावः ॥ ६८५॥
तृतीयस्यापि दूषणमाह. ३. स्थितस्थापकरूपस्तु न युक्तः क्षणभङ्गतः।
स्थितार्थासम्भवाद् भावे ताद्रूप्यादेव संस्थितिः॥६८६॥ तथा हि-यमसौ पदार्थं स्थितं स्थापयति कदाचिदसौ स्वयमस्थिरस्वभाव एव, यद्वा-स्थिरस्वभाव एवेति पक्षद्वयम् । यद्यस्थिरस्वभावः, तदा तस्य क्षणादूर्ध्वमभावात् कस्यासौ स्थापको भवेत् ! अथ द्वितीयः पक्षः, तदा भावे-सत्त्वे, स्थितानामर्थानां ताद्रूप्यादेव अप्रच्युतस्थितरूपत्वात्, स्थितिरिति किमकिञ्चित्करण स्थापकेन परिकल्पितेनेति पूर्ववद् दूषणं वाच्यम् ॥६८६॥ [G.230) अथापि स्यात्-क्षणिकत्वेऽपि सर्वभावानामेकक्षणावस्थितौ प्रबन्धेन चानुवृत्तौ तस्य सामर्थ्यमुच्यते? इत्यत्राप्याह
क्षणं त्वेकमवस्थानं स्वहेतोरेव जातितः। . . १ भेद-पार गा.।
२. पा०. गा० पुस्तकयोनास्ति। ३. भावनयेति शेषः। .. भावनाया इत्यर्थः। ५. चैतचित्तस्यत्यर्थः।
६. आत्मनः।