________________
गुणपदार्थपरीक्षा
१९९ सतयानुपाख्यत्वेन चाश्रयणानुपपत्तिरिति; एवं सुखादीनामन्येषां च यथायोगमाश्रितत्वासिद्धेर्न गुणो नामास्तीति भावः । किञ्च-बुद्धिर्ज्ञानस्वभावाऽङ्गीकृता परैः । यथोक्तम्-"बुद्धिरुपलब्धि
निमित्यनर्थान्तरम्' (न्या० दं० १.१.१५) इति । तस्याश्चैवंरूपाया अपि न स्वसंविदितरूपमिष्टं 'परैः; किन्तु बुद्ध्यन्तरगम्यत्वमेव । तथाभूतायाश्च रूपादिवत् स्वतोऽसिद्धे-बुद्धित्वमेवायुक्तमिति प्रतिपादयिष्यति ॥ ६८२॥
सुखदुःखच्छाद्वेषप्रयत्नानामप्यज्ञानरूपत्वमिष्टम्। तदपि प्रमाणलक्षणपरीक्षायां निषेत्स्यते । गुरुत्वद्रव्यत्वस्नेहानां तु रूपादिवत् प्रतिषेधो विधेयः-इत्येवमालोच्यैषां प्रतिषेधमकृत्वा, संस्कारप्रतिषेधमाह
वेगाख्यो भावनासंज्ञः स्थितस्थापकलक्षणः। संस्कारस्त्रिविधः प्रोक्तो नासौ सङ्गच्छतेऽखिलः ॥६८३॥ क्षणिकत्वात् पदार्थानां न काचिद् विद्यते क्रिया।
यत्प्रबन्धस्य हेतुः स्यात् संस्कारो 'वेगसंज्ञितः ॥६८४॥ [G.228] त्रिविधः संस्कार:-वेगः, भावना, स्थितस्थापकश्चेति। तत्र वेगाख्यः पृथिव्यप्तेजोवायुमनस्सु पञ्चसु मूर्तिमत्सु द्रव्येषु प्रयत्नाभिघातविशेषापेक्षात् कर्मणो जायते। स च नियतदिक्क्रियाप्रबन्धहेतुः, पेशवद्रव्यसंयोगविरोधी। तथा हि-शरादिषु प्रयत्नविशेषजनितकर्मविशेषहेतुक एव, यद्वशादन्तरालशिरस्यापतनं भवति। अत एवासौ नियतादिक्रियाकार्योनीयमानसद्भावतया सिद्धः। शाखादौ तु लोष्टाभिघातजनितकर्मजः । भावनासंज्ञस्त्वात्मगुणः । योऽसौ ज्ञानजो ज्ञानहेतुश्चोच्यते, स च दृष्ट श्रुतानुभूतेषु स्मृतिप्रत्यभिज्ञानकार्योन्नीत्सत्त्वतया सिद्धः। स्थितिस्थापकस्तु मूर्तिमद्रव्यगुणः, यो हि घनावयवसन्निवेशविशिष्टं कालान्तरावस्थायिनं स्वमाश्रयं प्रयत्नेनान्यथाकृतं पूर्ववद् यथावस्थितं स्थापयति, यथा-चिरकालसंवेष्टितस्य तालपत्रादेः प्रसार्यावमुक्तस्य पुनस्तथैवावस्थानम्। धनुःशाखाशृङ्गदन्तादिषु वस्त्रादिषु च भग्नावर्त्तितेषु तस्य कार्यं लक्ष्यत एव। अखिल इति त्रिविधोऽपि। तत्र वेगाख्यस्य कर्मसम्बन्धाख्यं कार्यमसिद्धम्; अशेषपदार्थजातव्यापिनः क्षणभङ्गस्य प्रसाधितत्वात्। ततश्च स्वभावप्रतिलम्भादूर्ध्वं सर्वभावानामसत्त्वान्न काचित् क्रियाऽस्ति, यस्याः क्रियायाः प्रबन्धस्य हेतुरसौ भवेत्।
अथ स्वोपादानदेशपरिहारेण प्रतीयमानो भावानामुत्पाद एव क्रियाप्रबन्धोऽभिप्रेतः, तथाऽप्यनैकान्तिकत्वम्; यतः पूर्वका एव हेतुप्रत्यया भावानां तथा तथोत्पद्यमानानां तथाविधात्मभूतक्रियाप्रबन्धतोऽनुमीयन्ते, न यथोक्तः संस्कारः, तेन सह क्वचिदप्यन्वयासिद्धेः।
किञ्च-यदि तथाविधसंस्कारबलादपतनमिष्वादीनां स्यात्, तदा न कदाचिदपि ते पतेयुः, सर्वत्र पातप्रतिबन्धहेतोर्वेगस्यावस्थितत्वात्। ततश्चाविशिष्टिाकाशदेशप्रसर्पिणो विशिखस्याकस्माद्यदेतत् पतनमुपलभ्यते तत्कथमुपपद्येत! न च मूर्त्तिमतां सतां वाय्वादीनां संयोगादुपहतशक्तित्वाद् वेगस्य विनाशात् पतनमिति शक्यं वक्तुम्; अर्वागेव पतनप्रसङ्गात्। . सर्वत्रैव हि वायुसंयोगस्तद्विरोधी विद्यत एव। १.वेगसंज्ञक:-पा०, गा०।
२. पा० गा० पुस्तकयो स्ति।