________________
१९८
तत्वसंग्रहे सकाशाद्भेदाभेदौ सिध्यतः ! तदेवं प्रथमे प्रयोगे सङ्ख्यादीनां द्रव्यादव्यतिरेकप्रतिषेधमात्रे साध्ये सिद्धसाध्यतेति प्रतिपादितम् ॥ ६७९-६८० ॥
सङ्ख्यादेव्यतोऽन्यत्वमेवं चेत् प्रतिपाद्यते?
आश्रयासिद्धता हेतोः सङ्ख्यादीनामसिद्धितः ॥६८१॥ अथापि स्यात्-न व्यतिरेकप्रतिषेधमात्रं साध्यते, किं तर्हि ? द्वौ प्रतिषेधौ विधिमेव गमयतः' इति प्रतिषेधद्वेयेन द्रव्याव्यतिरेकित्वमेव साध्यत इति? तदेतत् संख्यापूरत्यादिनाऽऽशङ्कया श्रयासिद्धतेत्यादिना प्रतिषेधयति। एवमिति। न द्रव्याव्यतिरेकिणः, किं तर्हि ? व्यतिरेकिण इत्यर्थः ॥ ६८१॥ तदेव सङ्ख्यादेराश्रयस्यासिद्धत्वं दर्शयति
समुच्चयादिभिन्नं तु द्रव्यमेव तथोच्यते। ... तथोच्यत इति । एको द्वौ बहवः-इत्येवमादिः। स्यादेतत्-द्रव्यात्मकस्यापि सतः सङ्ख्यादेर्भेदः प्रसाध्यते
स्वरूपादेव भेदश्च व्याहतः साधितो भवेत् ॥६८२॥ . न हि वस्तुनः स्वरूपाढ़ेदोऽस्ति; तस्य निःस्वभावत्वप्रसङ्गात् । व्याहत इति परस्परविरुद्धः । भेदाभेदयोः परस्परपरिहारस्थितलक्षणतया युगपदेकत्र विरुद्धत्वात्।
एवं तावत् परत्वान्ता गुणाः [G.227] प्रतिषिद्धाः। बुद्ध्यादयस्तु प्रयत्नान्ता आत्माश्रितत्वेन तद्गुणा इष्टाः । ते चात्मनिषेधादेव निषिद्धा द्रष्टव्याः ।
न चैषामात्माऽऽश्रयो युक्तः, तथा हि-उत्पत्तिहेतुतया चामीषामात्माऽऽश्रयो भवेत् ? स्थितिहेतुतया वा? न तावदुत्पत्तिहेतुतया; सर्वदैवाविकलकारणतया सुखादीनामुत्पत्तिप्रसङ्गात्। न च परैरनाधेयातिशयस्य सहकारिव्यपेक्षा काचिदस्तीति शतशश्चर्चितमेतत्। न चापि नित्यस्य कार्योत्पादनसामर्थ्यमस्ति; तस्य क्रमयौगपद्याभ्यां व्याप्तत्वात्। नित्यस्य च क्रमयौगपद्याभ्यामर्थक्रियाविरोधस्य प्रतिपादितत्वात् । नापि स्थितिहेतुतया युक्तः; स्थिते: स्थातुरव्यतिरिच्यमानरूपत्वात् । तद्धेतुत्वे स्थातृहेतुत्वमेवोक्तं स्यात् । तच्चानन्तरमेव निषिद्धम् । तस्य च स्थातुः अपरिनिष्ठितात्मस्वरूपत्वान्न कश्चिद्धेतुः सम्भवति; तस्य तत्राकिञ्चित्करत्वात् । व्यतिरेकेऽपि स्थितेः स्थातुस्तेन न किञ्चित् कृतम् अर्थान्तरभूतायाः स्थिते: करणात्। ततश्चाकिञ्चित्करः कथं तस्याश्रयो भवेत् ! नापि तत्सम्बन्धिन्याः स्थिते: करणात् तस्यायमुपकारको युक्तः, तत्सम्बन्धित्वासिद्धेः । न चापि स्थितिं प्रति हेतुत्वं युक्तम्; नित्यस्य क्वचिदपि सामर्थ्यानुपपत्तेरित्युक्तम्।
किञ्च-असौ स्थाप्यमानो भावः स्वयमस्थिरस्वभावो वा भवेत् ? स्थिरस्वभावो वा? यद्यस्थिररूपः, तत् कथं परेण स्थापयितुं शक्येत; तत्स्वभावहानिप्रसङ्गात् ! अथ स्थिरस्वभावः, तथापि स्थापकोऽकिञ्चित्कर एव; स्वयमेव तत्स्वभावतया तस्य स्थितिसिद्धेः ।
किञ्च-ये तावन्मूर्ता भावाः, तेषामधोगमनप्रतिबन्धकत्वेन भवेन्नामाश्रयकल्पना, ये पुनरमी सुखादयस्तेषाममूर्ततया नाधोगमनमस्तीति किं कुर्वाणस्तेषामाश्रयो भवेत् ! सदसतोश्च 'निराशं१. परिनिष्ठिता.- पा०. गा०। २. 'निरंशतया- इति पाठान्तरम्-'- इति जै० पुस्तकस्य पृष्ठप्रान्ते दृश्यते।