________________
गुणपदार्थपरीक्षा
१९७ प्रतिविहितमेतदस्खलद्गतित्वान्नौपचारिकत्वं युक्तमिति । स्वाश्रयेऽपि तयोरुपलब्ध्यभावाच्च न तद्वलेन प्रत्ययो युक्तः; तत् कुतो रूपादिषु तन्निबन्धनो भविष्यति! सुखादिषु वा पूर्वोत्तरकालभाविषु किं कल्प्येत, न हि तत्रैकार्थसमवायोऽस्ति ! अपि च-दिक्कालयोः पूर्वं प्रतिषिद्धत्वेनाभावात् तद्धेतुकयोरपि परत्वापरत्वयोरभाव इति कुतस्तन्निमित्तत्वाशङ्का, येन हेतोरनैकान्तिकता भवेत् ! न चापि दिक्कालयोर्भवतः प्रदेशाः सन्ति, येन यत्संयोगादपेक्षाबुद्धिसहितात् परत्वादेरुत्पत्तिः स्यात्; तयोरेकात्मतया निरवयत्वात्। न चोपचरितोऽवयवभेदोऽर्थक्रियानुरोधी युक्तः; वस्तुस्वभावप्रतिबद्धत्वात् तस्याः, उपचरितस्य चालीकत्वादिति नानैकान्तिकता। परकीयस्य च हेतोः पूर्ववदसिद्धत्वं वाच्यम् ॥ ६७४-६७५ ।। सङ्घयेत्यादिना परकीयं प्रस्तुतसङ्ख्यादिगुणपदार्थसाधनमाशङ्कते
सङ्ख्यायोगादयः सर्वे न द्रव्याव्यतिरेकिणः। तद्वयवच्छेदकत्वेन दण्डादिरिव चेन्मतम् ॥६७६ ॥ तेषां संवृतिसत्त्वेन वर्णनादिष्टसाधनम्।
तत्त्वान्यत्वेन निर्वाच्यं नैव संवृतिसद् यतः ॥६७७॥ .. सर्व एवामी यथोक्ताः सङ्ख्यादयो. गुणा न द्रव्यादव्यतिरेकिणः; तस्य द्रव्यस्य तेषां व्यवच्छेदहेतुत्वात् । यो हि यव्यवच्छेदकः, नासौ तदव्यतिरेकी, यथा-दण्डादिर्देवदत्तस्येति। तदत्र द्रव्यादव्यतिरेकित्वनिषेधमात्रे साध्ये सिद्धसाध्यता दोषः प्रतिज्ञायाः; संवृतिसतां सर्वेषामवस्तुतया तत्त्वान्यत्वाभ्यामवाच्यतयाऽभीष्टत्वात् ।। ६७६-६७७॥
अथेत्यादिनात्रा विद्धकर्णस्योत्तरमाशङ्कते__ अथानिर्वचनीयत्वं समूहादेनिषिध्यते।
यस्मानियतधर्मत्वं रूपशब्दरसादिवत् ॥६७८॥ ___ स ह्याह-"समूहसन्तानावस्थाविशेषास्तत्त्वान्यत्वाभ्यामवचनीया न भवन्ति; प्रतिनियतधर्मयोगित्वाद्, रूपरसादिवत्" ( ) इति ॥ ६७८ ॥ [G.226) तदेत नि:स्वभाक्तयेत्यादिना प्रतिविधत्ते... निःस्वभावतया तस्य तत्त्वतोऽम्बरपद्मवत्।
न सिद्धा नियता धर्माः कल्पनारोपितास्तु ते ॥६७९॥ यदि हि पारमार्थिकनियतधर्मत्वं हेतुरिष्टः, तदा हेतोरसिद्धता। नहि बौद्धं प्रति सन्तानादीनां संवृतिसतां पारमार्थिकनियतधर्मयोगित्वं सिद्धम्। अथ सामान्येन हेतुः, तदा वियत्पद्मादीनामप्यभावत्वामूर्त्तत्वादयः कल्पिता 'नियता धर्मा:२ सन्त्येवेत्यनैकान्तिकता हेतोः ।
तथैवोक्तावनेकान्तो वियत्पद्मादिभिर्यतः।
अभेदो व्यतिरेकश्च वस्तुन्येव व्यवस्थितः ॥६८०॥ तथैवोक्तविति । सामान्येन विकल्पितानुपाख्यवर्त्तिधर्मापरित्यागेनोक्तौ सत्यामित्यर्थः ।
इतश्चानैकान्तिकत्वमस्य हेतोः, यस्मादभेदोऽनन्यत्वम्, व्यतिरेकोऽन्यत्वम्, एतौ वस्तुन्येव व्यवस्थितौ, नान्यत्र । सन्तानादयश्च प्रज्ञप्तिसत्त्वेनावस्तुसन्तः, तत् कथमेषां वस्तुनः १. पा०, गा० पुस्तकयो स्ति।
२-२. नियतधर्मा:-पा०, गा०। ३. ०नुपाख्यवृत्तिधर्मपरिo--पा०, गा०।