________________
१९६
तत्वसंग्रहे [G.224] 'इदं परम्', 'इदमपरम्' इति यतोऽभिधानप्रत्ययौ भवतः, तत्परत्वमपरत्वं च यथाक्रमं परापराभिधाननिमित्तं सिद्धम्। आदिशब्देन प्रत्ययो गृह्यते । प्रयोगः-येयं परमपरमिति संवित् सा घटादिव्यतिरिक्तार्थान्तरनिबन्धना; तत्प्रत्ययविलक्षणत्वात्, सुखादिबुद्धिवदिति। तथा हि- एकस्यां दिशि स्थितयोः पिण्डयोः परमपरमिति बुद्धिप्रवृत्तिर्न तावदियं दिनिबन्धना। नापि कालनिबन्धना; एकस्मिन्नपि वर्तमाने काले वर्तमानयोरनियतदिग्देशसंयुक्तयोर्युवस्थविरयोर्विभागेन परापरबुद्धिप्रवृत्तेस्तदविशेषेऽपि विशेषादिति भावः । न चान्यदस्या बुद्धेर्निबन्धनमभिधातुं पार्यते। तस्माद्यन्निबन्धनेयं तत् परत्वमपरत्वमिति सिद्धम्। दिक्कालावधिकं न तदिति। दिक्कालप्रदेशसंयुक्तसन्निकृष्टविप्रकृष्टपदार्थावधिकं न भवतीत्यर्थः। दिक्कालशब्दाभ्यां ह्यपचाराद्दिक्कालप्रदेशसंयुक्तयोर्निर्देशः। तथा ह्येतत् परत्वमपरत्वं च द्विविधमपि दिक्कृतं कालकृतं चेति वर्णितं परेण।
तत्र दिक्कृतस्यैवमुत्पत्तिः-एकस्यां दिश्यवस्थितयोः पिण्डयोरे कस्य प्रष्ट : सन्निकृष्टमवधिं कृत्वा 'एतस्माद्विप्रकृष्टोऽयम्' इति परत्वाधारे बुद्धिरुत्पद्यते, ततस्तामपेक्ष्य परेण दिक्प्रदेशेन संयोगात् परत्वमुपजायते। विप्रकृष्टं चावधिं कृत्वा एतस्मात् सन्निकृष्टोऽयम्' इत्यपरत्वाधारे बुद्धिरुत्पद्यते, तामपेक्ष्यापरेण दिक्प्रदेशेन संयोगादपरत्वस्योत्पत्तिः।
कालकृतयोस्त्वयमुत्पत्तिक्रमः । तथा हि-वर्तमानकालयोरनियतदिग्देशसंयुक्तयोर्युवस्थविरयोर्मध्ये यस्य वलिपलितरूढश्मश्रुतादिनाऽनुमितमादित्योदयास्तमयानां बहेत्वं तकस्य द्रष्टयुवानमवधिं कृत्वा विप्रकृष्टा बुद्धिरुत्पद्यते, तामपेक्ष्य परेण कालप्रदेशेन संयोगात् परत्वस्योत्पत्तिः । स्थविरं चावधिं कृत्व यस्यारूढश्मश्रुतादिनाऽनुमितमादित्योदयास्तमयानामल्पत्वम्, तत्र यूनि सन्निकृष्टबुद्धिरुत्पद्यते, तामपेक्ष्यापरेण कालप्रदेशेन संयोगादपरस्योत्पत्तिरिति। तदेतत् परत्वापरत्वसाधनमनैकान्तिकम्; साध्यविपक्षेऽपि हेतोर्वृत्तेरिति दर्शयति
यथा नीलादिरूपाणि क्रमभावव्यवस्थितेः।
अन्योपाधिविवेकेऽपि तथोच्यन्ते तथाऽपरे ॥६७५॥ भाव:=उत्पादः, तत्सहिता व्यवस्थितिः, क्रमेण भावव्यवस्थितिरिति विग्रहः । एतदुक्तं भवति-यथा नीलादिषु क्रमेणोत्पादात् कालोपाधेः क्रमेण व्यवस्था, न गुणोपाधेः; परं नीलमपरं नीलमिति परापरव्यपदेशो भवति, असत्यपि परत्वापरत्वलक्षणे गुणे; निर्गुणत्वाद् गुणानाम्, तथा घटादिष्वपि किं नेष्यते! एतेनैतदर्शयति-यद्यर्थान्तरनिमित्तत्वमात्रमिह साधयितुमिष्टम्, तदाऽनैकान्तिकता हेतोः; साध्यविपर्ययेऽपि तस्य वृत्तेः।
अथ नित्यभूतदिक्कालपदार्थहेतुको यो गुणविशेषस्तन्निबन्धत्वमस्या बुद्धेः साधयितुमिष्टम्, तदा दृष्टान्ताभावः। प्रतिज्ञायाश्चानुमानबाधा। तथा हि-शक्यमिदं कर्तुम्-या परापरबुद्धिः [G.225] सा परपरिकल्पितगुणरहितार्थमात्रकृतक्रमोत्पादव्यवस्थानिबन्धना; परापरबुद्धित्वात्, यथा रूपादिषु परापरबुद्धिः । परापरबुद्धिश्चेयं घटादिष्विति स्वभावहेतुः । नीलादिष्वेकार्थसमवायादुपचरितेयं परत्वादिबुद्धिः,अतोऽनैकान्तिकता हेतोः,पारम्पर्येण नीलादिष्वपि परत्वादेनिमित्तभावोपगमात् साध्यविकलतां च दृष्टान्तस्येति चेत् ? न; १. प्रवर्तमाने-पा०, गा०।