________________
गुणपदार्थपरीक्षा
१९५ यदुक्तम्- "कुण्डवीति मतिश्चेयम्" (तत्त्व० ६६०) इत्यादि, तत्राह
कुण्डलीति मतिश्चेयं जातावस्थाविशेषयोः ।
"चैत्रकुण्डलयोरेव संयोग इव जायते ॥६६९॥ यथैव हि संयोगश्चैत्रकुण्डलयोर्विशिष्टावस्थाप्राप्तौ सत्यामुपजायते, न हि सर्वदा, तद्वदियमपि कुण्डलीति मतिरवस्थाविशेषनिबन्धना भवन्ती किमिति सर्वदा भवेद् । जातोऽवस्थाविशेषो ययोश्चैत्रकुण्डलयोस्ते तथोक्ते ॥६६९॥ यच्चोक्तम्-"अन्यत्र दृष्टभावस्य" (तत्त्व० ६६१) इत्यादि, तत्राह
सोऽवस्थातिशयस्तादृग्दृष्टोऽन्यत्र निषिध्यते।
चैत्रे कुण्डल इत्यादौ न संयोगस्त्वदृष्टितः ॥६७०॥ G.223] यदवस्थाविशेषनिबन्धनेयं मतिरुपवर्णिता, तस्योपलब्धिलक्षणप्राप्तस्यान्यस्यामवस्थायामनुपलम्भे सति प्रतिषेधो विधीयते, न तु भवत्परिकल्पितस्य संयोगस्य; तस्य संयोगिपदार्थविवेकेन क्वचिदपि बुद्धावप्रतिभासनात्। तस्मान्नासिद्धता हेतोः ॥ ६७० ।।
स्यादेतत्-यदि नाम साधकं प्रमाणं संयोगं प्रति न जातमस्माकम्, भवतां तु किं बाधकं प्रमाणम् ? इतत्याह
न पराभिमताद् योगाज्जायते युक्तवस्तुधीः। युक्तबुद्धितया यद्वत् प्रासादादिषु युक्तिधीः ॥६७१॥ अनेकवस्तुसद्भावे जायमानतयाऽथ वा। विभक्तानेकतन्त्वादिविषया इव • बुद्धयः ॥६७२॥ विभागेऽपि यथायोगं वाच्यमेतत् प्रमाद्वयम्।
एकस्यानेकवृत्तिश्च न युक्तेति प्रबाधकम् ॥६७३॥ __ प्रयोगः-या संयुक्तबुद्धिः सा भवत्परिकल्पितसंयोगानास्पदवस्तुविशेषमात्रभाविनी, यथा संयुक्तौ प्रासादौ' इत्यादौ । संयुक्तबुद्धिश्चयम् 'चैत्र: कुण्डली' इत्यादाविति स्वभावहेतुः । अथ वा-याऽनेकवस्तुसन्निपाते सत्युपजायते, सा भवत्परिकल्पितसंयोगरहितानेकवस्तुविषयमात्रभाविनी, यथा प्रविरलावस्थितानेकतन्तुविषयाः प्रत्ययाः । तथा चेयं संयुक्तधीरिति स्वभावहेतुः । युक्तरिति । संयुक्तबुद्धिरित्यर्थः । एतदेव प्रमाणद्वयं विभागप्रतिषेधे वाच्यम्। विभक्तबुद्धित्वादमेकपदार्थासन्निधानायत्तोदयत्वाद्वा पराभिमतविभागरहितपदार्थविशेषमात्रनिबन्धना मेषादिषु विभागबुद्धिः,यथा दूरतरावस्थितमेषद्वयविषया विन्ध्यहिमवद्विषया वा धीरिति यथायोगार्थ:।
अथ किमत्र साध्यविपर्यये हेतोर्बाधकं प्रमाणम्, येन हेतोर्विपक्षे प्रचाराशङ्का निवर्त्तते? इत्याह- एकस्येत्यादि । यथैकस्यानेकत्र वृत्तिर्न युक्ता, तथा "तद्धयेकवृत्तिभाजैव रूपेण" (तत्त्व०६०६)इत्यादिनाऽवयविनिषेधे प्रतानितमिति नेह पुनः प्रतायते ॥ ६७१-६७३ ॥ परत्वापरत्वयोर्दूषणमाह
परापराभिधानादिनिमित्तं यच्च कल्प्यते।
परत्वमपरत्वं च दिक्कालावधिकं न तत् ॥६७४॥ १. पा०. गा० पुस्तकयो स्ति।