________________
.१९४
तत्वसंग्रहे न हि संयुक्तपदार्थान्तरभूतः संयोगः प्रतिपत्तुर्दर्शनपथमवतरति, येन तद्दर्शना विशिष्टे द्रव्ये आहरति, किं तर्हि ? प्राग्भाविनी या' सान्तरजातावस्था ततो विशिष्टे ये निरन्तरोत्पन्ने वस्तुनी ते एव संयुक्तशब्दवाच्ये, अवस्थाविशेषे प्रसाधितत्वात् संयोगशब्दस्य। तेन यत्र तथाविधे वस्तुनी संयोगशब्दविषयभावापन्ने पश्यति, ते एवाहरति नान्ये, न हि शब्देनाबोधितेऽर्थे शब्दात् प्रवर्त्तते प्रेक्षावान् ॥ ६६५॥ यच्चोक्तम् “निरन्तरमिदम्" (तत्त्व० ६५७) इत्यादि, तत्राह
विच्छिन्नमन्यथा चैव जातमेति निमित्तताम्। . सान्तरानन्तरज्ञाने गेहविन्ध्यहिमाद्रिवत् ॥६६६॥
वस्त्वन्तरमेव तथोत्पद्यमानं बुद्धिभेदनिबन्धनम्, अतोऽनैकान्तिकमेतदिति समुदायार्थः । तत्र विच्छिन्नं यज्जातं वस्तु तत् सान्तरबुद्धेनिमित्ततामेतीति सम्बन्धः । अन्यथा चेति अविच्छिन्नम्, यज्जातमिति सम्बन्धः । गेहविन्ध्यहिमाद्रिवदिति । अनयोरेव यथायोगमुदाहरणम्। न ह्यविच्छेदेनोत्पन्नयोः स्वयं संयोगात्मनोर्गेहयोरपरः संयोगो निरन्तरबुद्धेर्निबन्धनमस्ति परमतेऽपि, नापि विच्छेदेनोत्पन्नयोस्तयोरेव [G.222] विभागः सान्तरप्रत्ययनिमित्तमस्ति; निर्गुणत्वाद् गुणानामित्युक्तमेतत्। न हि हिमविन्ध्ययोरपि विभागः सान्तरबुद्धेर्हेतुरस्ति; 'प्राप्तिपूर्विका ह्यप्राप्तिर्विभागः' इति समयात् ॥ ६६६ ॥ यच्चोक्तम्- "या चेयं सान्तरे बुद्धिः" (तत्त्व० ६५८) इत्यादि, तत्राह
मिथ्याबुद्धिर्न सर्वैव प्रधानार्थानुसारिणी।
साधर्म्यनिरपेक्षापि काचिदन्तरुपप्लवात् ६६७॥ 'सर्वा मिथ्याबुद्धिः साधर्म्यग्रहणादुपजायते' इत्यसिद्धमेतत् कस्याश्चित् साधर्म्यमनपेक्ष्यापीन्द्रियवैगुण्यमात्रेणोत्पत्तिदर्शनात्। यथाऽन्यत्रगतविकल्पचेतसोऽपि पुरोऽवस्थितैकचन्द्रादिप्रत्ययमात्रेण तिमिरोपपादितेन्द्रियवैगुण्याच्चन्द्रद्वयाकारानुस्यूता विशदतरप्रविभासिनी कल्पनाकलङ्कानङ्कितैव धीरुपजायते।
अन्यत्रगतचित्तस्य द्विचन्द्रादिमतिर्यथा। ... अन्यत्रगतचित्तस्य इत्यनेन निर्विकल्पत्वं द्विचन्द्रधियो दर्शयति । न हि निर्विकल्पचेतसि साधर्म्यग्रहणमस्ति; तस्य पूर्वापरदृष्टपदार्थकत्वाध्यवसायात्मकत्वेन पूर्वानुभूतार्थाभिजल्पात्मकत्वात्।
___अथवा-भवतु नाम पूर्वस्या मिथ्याबुद्धेः प्रधानार्थानुसारित्वम्, तथापि नेष्टसिद्धिर्भवत इति दर्शयति
अविच्छिन्नादिजातं वा प्रधानमिह विद्यते ॥६६८॥ आदिग्रहणेन विच्छिन्नजातं वस्तु गृह्यते। तदेव हि वस्तु विच्छिन्नमविच्छिन्नं चोपजायमानमतज्जातीयपरिहारेण प्रवृत्त्यर्थं प्रथमतरं विनिवेशितविभक्ताद्यभिधानतया मुख्यमस्तीति नेष्टसिद्धिर्भवतः ॥ ६६७-६६८॥ १.गा० सम्पादकस्तु 'तद्विशिष्टे' इति पाठं स्वीचिकीर्षति। २-२. ये सान्तरजातावस्थे-पा०, गा०/ ३. चन्द्राविपत्य-जै०, पा०।
४. सविकल्पस्येत्यर्थः।