________________
गुणपदार्थपरीक्षा
१९३ उच्यत इत्यादिना प्रतिविधत्ते
उच्यते क्षणिकत्वेन नाविशेषा जलादयः।
सत्त्वेऽप्यव्यवधानादि तेऽपेक्षन्ते दशान्तरम् ॥६६३॥ यदुक्तम्-'अविशेषाद्वीजादयः सदैव कार्यं कुयुः' (तत्त्व० ६५३) इति, तस्याविशष्टत्वं बीजादीनामसिद्धम्, क्षणभङ्गितया सर्वभावानां विशिष्टावस्थानामेव जनकत्वात् । यच्चोक्तम्-"क्षेत्रबीजादि" (तत्त्व० ६५४) इत्यादि, तत्रापि सामान्येन सापेक्षत्वमात्रे साध्ये सिद्धसाध्यतेति दर्शयति-सत्त्वेऽपीत्यादि। इष्यन्त एवास्मभिरव्यवधानाद्यवस्थान्तरसापेक्षा बीजादयोऽङ्करादिकार्यनिर्वर्तनसमर्था विद्यमानत्वेऽपीति सिद्धसाध्यता। तत्राविद्यमाना व्यवधानादयो यत्र देशान्तरेऽवस्थाविशेषे तत्तथोक्तम्। आदिशब्देन विरोधिप्रत्ययप्रतिघातादिकार्योत्पत्तिबन्धकं नास्तीत्यर्थः। यत्रावस्थान्तरे व्यवधानम्, दूरदेशावस्थानम्, विरोधिना प्रतिहतिः-इत्यादिकार्योत्पत्तिप्रतिबन्धकं नास्तीत्यर्थः। अवस्थायाश्च स्वभावाव्यतिरेकानार्थन्तरभूतसंयोगसिद्धिः । अर्थ भवदभिमतसंयोगाख्यपदार्थान्तरसापेक्षत्वं साधयितुमिष्टम्, तदा तथाविधेन धर्मेण हेतोरन्वयासिद्धरनैकान्तिकता, दृष्टान्तस्य च साध्यविकलतेति भावः ॥ ६६३ ॥
___ स्यादेतत्, कथमिदमवगम्यते-अवस्थान्तरविशेषसापेक्षाः क्षित्यादयोऽङ्करादिकार्यप्रसवहेतवः, न पुनरर्थान्तरभूतसंयोगसापेक्षाः. येन सामान्येन सापेक्षत्वमात्रे साध्ये सिद्धसाध्यता भवेद्भवतः? इत्याशङ्कयाह
संयोगमात्रसापेक्षा यदि तु स्युर्जलादयः ।
• योगानन्तरमेव स्यात् कार्यमन्तेन वा भवेत् ॥६६४॥ यदि हिं संयोगमात्रसापेक्षाः स्युः, तदा प्रथमोपनिपात एव क्षित्यादिभ्योऽङ्करादिकार्योदयप्रसङ्गः; पश्चाद्वदविकलकारणत्वात्। अथ प्रथमोपनिपाते न भवति पश्चादप्यनुत्पत्तिप्रसङ्गः । [G.221] पूर्ववदजनकावस्थायां विकलकारणतया निर्विशिष्टत्वात् । न च क्षित्यादीनामनुपकारिणि संयोगेऽपेक्षा युक्तिमती; अतिप्रसङ्गात्। न चापि संयोगानां कादाचित्कत्वं युक्तम्; तत्कारणानां क्षित्यादीनां नित्यं सन्निहितत्वात्। अथ तत्रापि संयोगे जन्ये क्षित्यादीनां कर्मादिसापेक्षत्वमिष्यते? न; तत्रापि तुल्यपर्यनुयोगत्वात् ! तथा हि-तदपि कर्म कस्मान्न जनयतीति पर्यनुयोगे किं वक्तव्यं स्यात् ? तत्कारणनोदनाभावादिति चेत् ? तस्यापि कस्मादभाव इति नित्यकारणाभ्युपगमे सर्वत्र तुल्य: पर्यनुयोगः । यस्य तु सर्वमेवानित्यं वस्तु, तस्यानादित्वाद्धेतुपरम्परायाः सर्वभावानां सकृदुत्पत्तिप्रसङ्गो न भवति; पूर्वपूर्वकारणप्रतिबद्धत्वादुत्तरेषाम्। तेषां च सर्वेषां युगपत् कारणवैकल्येनासन्निधानात् । तस्माद्भवत एव दर्शनेऽरादिकार्यप्रसवहेतुत्वं क्षित्यादीनां सर्वदा प्रसज्यत इति न संयोगार्थान्तरसापेक्षाः क्षित्यादय इति सिद्धम् ॥६६४ ॥ यच्चोक्तम्-"सविशेषणभावाच्च" (तत्त्व० ६५५) इत्यादि, तत्राह
प्राप्तावस्थाविशेषे हि नैरन्तर्येण जातितः।
ये पश्यत्याहरत्येष वस्तुनी ते तथाविधे॥६६५॥ १. कार्यमेतेन- पा०, गा०।
२. विकलकारणताया-पा०. गा० ।