________________
१९२
तत्वसंग्रहे - बुद्धिभेदश्च केनैष विद्यते तो 'न चेदिह ॥६५७॥ [G.219] अपि चाविशिष्टेऽपि निरन्तरमिदं वस्तु सान्तरमिदमिति बुद्धिभेदः कथं युज्यते, यद्येतौ संयोगविभागाविह वस्तुन्यर्थान्तरभूतौ न स्याताम् ! न हि विशेषप्रत्ययो वस्तुविशेषमन्तरेण सम्भवी भवितुमर्हति; सर्वदा सर्वत्र भावप्रसङ्गात् ॥ ६५७॥
या चेयं सान्तरे बुद्धिनैरन्तर्यावसायिनी। निरन्तरेऽपि या चान्या मिथ्याबुद्धिरियं द्विधा ॥६५८ ॥ मिथ्याबुद्धिश्च सर्वैव प्रधानार्थानुकारिणी।
प्रधानं चेह वक्तव्यं तदुक्तौ तौ च सिध्यतः ॥६५९॥ किञ्च, येयं दूरतरावस्थितेऽपि धवखदिरादौ विदूरदेशवर्तिनः पुंसो निरन्तरावसायिनी बुद्धिरुदयमासादयति, या चेयमीषत्तरुशिखरावलग्ने बलाकादौ निरन्तरेऽपि सान्तरत्वमिवावस्यन्ती जायतेऽन्या, सेयं द्विविधाऽप्यतस्मिंस्तथारूपेण प्रवृत्तत्वान्मिथ्याबुद्धिः । न च मिथ्याधीमुख्यपदार्थानुभवमन्तरेण क्वचिदुपजायते। न ह्यननुभूतगोदर्शनस्य गवयपदार्थदर्शनात् गौरयमिति विभ्रमो भवति। तस्मादवश्यं कश्चिन्मुख्यः पदार्थोऽस्या विभ्रमधियो निबन्धनमभिधानीयः, तस्याभिधाने च तौ संयोगविभागौ सिध्यतः। न हि तद्व्यतिरेकेणान्यदस्या बुद्धेर्निबन्धमुपपादयितुं शक्येत॥६५८-६५९॥
कुण्डलीति मतिश्चयं किन्निमित्तोपजायते। नरकुण्डलभावानो सर्वदा तत्प्रसङ्गतः ॥६६०॥ अन्यत्र दृष्टभावस्य निषेधोऽन्यत्र युज्यते। संयोगश्च न चेद्' दृष्टः स कथं प्रतिषिध्यते ॥६६१॥ चैत्रोऽकुण्डल इत्येवं तस्मादस्त्येव वास्तवः।
यनिषेधविधानादि विभागेन प्रवर्त्तते ॥६६२॥ अपि च–'कुण्डली देवदत्तः' इति मतिरियमुपजायमाना किनिबन्धनोपजायत इति वचनीयम्। न च पुरुषकुण्डलमात्रभाविनी भवितुमर्हति; सर्वदा तत्र देवदत्तकुण्डलयोस्तस्याः सद्भावप्रसङ्गात्। किञ्च-यदेव केनचित् क्वचिदुपलब्धसत्त्वं तस्यैवान्यत्र विधिप्रतिषेधमखेन *लोके व्यवहारप्रवृत्तिर्दृष्टा । यदि भवता संयोगो न कदाचिदुपलब्धः, तत्कथमस्य 'चैत्रोऽकुण्डलः, कुण्डली च' इत्येवं विभागेन व्यवहारो भवेत्। तथा हि-अत्र 'चैत्रोऽकुण्डली' इत्यनेन कुण्डलं प्रतिषिध्यते; तस्य देशकालभेदेन सत्त्वाध्यासितमूर्तेः प्रतिषेद्धमशक्यत्वात्। नापि चैत्रस्य; तत्तुल्ययोगक्षेमत्वात्। तस्माच्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते। तथा 'चैत्रः कुण्डली' इत्यनेनापि विधिवाक्येन चैत्रकुण्डलयोर्नान्यतरस्य विधानमः तयोः सिद्धत्वात्। पारिशेष्यात् संयोगस्यैवाप्रतीतस्य विधेञ्जयते। तस्मादस्त्येव संयोगादिर्वास्तवः, यद्वशाच्चैत्रः कुण्डली न भवतीत्यादिनिषेधविधानादि प्रविभक्तमेव प्रतीयते। आदिशब्देन विशेषत्वेनोपादानमित्यादि पूर्वोक्तपरिग्रहः ॥ ६६०-६६२ ।। [G.220] . १. च-पा०, गा०1
२-२. भवेद्-पा०, गा०। ४-४. लोकव्यवहार-पा०, गा०।
३. पुरुषकुण्डलभावमात्र-पा०, गा०/