________________
गुणपदार्थपरीक्षा तथाऽपरेऽपि घटादयो द्रव्याभिमता विनाऽन्येन-स्वव्यतिरिक्तेन पृथक्त्वनाम्ना गुणेन भविष्यन्तीति। न चापि तेषु-भाक्तोऽयं प्रत्ययः; मुख्यप्रत्ययाविशिष्टत्वादिति भावः ।
यद्वा-अपोद्धारव्यवहति विभिन्नात्मपदार्थनिबन्धनां दर्शयन् प्रतिज्ञाया अनुमानबाधामाह-परस्परेत्यादि। प्रयोग:-ये परस्परव्यावृत्तात्मानः, ते न स्वव्यतिरिक्तपृथक्त्वसमाश्रयाः, यथा-सुखादयः । परस्परव्यावृत्तात्मानश्च घटादय इति स्वभावहेतुः । एकस्यानेकवृत्त्यसम्भवः, समवायस्य निषेत्स्यमानत्वात् सम्बन्धानुपपत्तिः, सुखादिषु तद्व्यवहाराभावप्रसङ्गश्च बाधकं प्रमाणम् ॥ ६५१॥ . तत्र संयोगविभागयोर्दूषणार्थमाह
यौ संयोगविभागौ च द्रव्येषु नियतौ परैः।
संयुक्तादिधियो हेतू कल्पितौ तावनर्थकौ ॥६५२॥ [G.218] यथाक्रमं द्रव्येषु संयुक्तविभक्तप्रत्ययहेतू अप्राप्तप्राप्तानां प्राप्त्यप्राप्तिस्वभावावन्यतरोभयकर्मजौ च संयोगविभागजौ च संयोगविभागाविति परप्रक्रिया। एतच्च प्रक्रियामात्रमेव, न त्वनयोर्वस्तुसत्त्वसिद्धौ किञ्चन प्रमाणमस्तीत्यतोऽनर्थकावेतौ कल्पितौ परैः । प्रयोग:यस्य न किञ्चित् साधकं प्रमाणमस्ति न तत् प्रेक्षावतां सद्व्यवहारविषयः, यथा-वन्ध्यासुतादि, नास्ति च संयोगविभागयोः साधकं प्रमाणं पेरषामिति व्यापकानुपलब्धेः ॥ ६५२॥ 'बीजोदकेत्यदिनोयोतकरमतोपदर्शनाद्धेतोरसिद्धतामाशङ्कते
बीजोदकपृथिव्यादि सर्वदा कार्यकारकम्। प्रसक्तं निर्विशेषत्वात् संयोगासम्भवेन तु ॥६५३॥
क्षेत्रबीजजलादीनि सापेक्षाणीति गम्यते। 'स्वकार्यकरणान्नित्यं दण्डचक्रोदकादिवत् ॥६५४॥ .यस्तैरपेक्ष्यते भावः स संयोगो भविष्यति। सविशेषणभावाच्च भिन्न एवेति गम्यते ॥६५५॥ संयुक्ते आहरेत्युक्ते संयोगं प्रेक्षते ययोः।
तदन्यपरिहारेण ते एवाहरति ह्ययम् ॥६५६॥ स ह्याह-यदि संयोगो नार्थान्तरं भवेत्तदा क्षेत्रबीजादयो निर्विशिष्टत्वात् सर्वदैवाङ्करादि कुर्युः, न चैवम्। तस्मात् सर्वदा कार्यानारम्भात् क्षेत्रादीन्यङ्करादिकार्योत्पत्तौ 'कारणान्तरसापेक्षाणि, यथा मृत्पिण्डदण्डसलिलसूत्रादयो घटादिकरणे कुम्भकारादिसापेक्षाः । योऽसावपेक्ष्यः स संयोग इति सिद्धम्। किञ्च-योऽसौ संयोगो द्रव्ययोः स विशेषणभावेन प्रतीयमानत्वात्ततोऽर्थान्तरत्वेन प्रत्यक्षत एव सिद्धः । तथा हि-कश्चित् केनचित् संयुक्ते द्रव्ये आहरेत्युक्ते ययोरेव द्रव्ययोः संयोगमुपलभते ते एवाहरति, न द्रव्यमात्रम्; अन्यथा यत्किञ्चिदाहरेत्। एतच्च सर्वं विपर्ययाद् विभागसाधनेऽपि योज्यम् ॥ ६५३-६५६॥
निरन्तरमिदं वस्तु सान्तरं चेदमित्ययम्। १. बीजोदकेनेत्यादि०-०। २.कार्यान्तर-पा०, गा।